पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. १ख. ] कम्मप्रदोषः । इति । ऊहतलक्षणमाह संग्रहकारः । “करेण दक्षिणेनोईं गतेन त्रिगुणीकृतम् । बलितं मानवैः स्वं शास्त्रे जईवृतं स्मृतम्” ॥ इति । ऊर्हन्तु वितं कार्य्यमिति पाठेऽप्ययमेवार्थः । वामावर्त्त- बलितं स्त्रवयं त्रिगुणीकृत्य दक्षिणावर्त्तवृतं कार्य मिति परिशिष्ट प्रकाशः । तदेवं विसरमुपवीतं स्यात् । उपवोतमेव यज्ञसम्बन्धात् यज्ञोपवीतमित्युच्यते । तस्यैकोग्रन्थिरिष्यत छन्दोगाचार्यैः । केचित् किल प्रवरसंख्यया ग्रन्थिं कुर्व्वन्ति । एकोन्थिरित्यनेन तत्वाननु- मतिर्दर्शिता । यचान्येर्द्विगुणितं षट् तन्तुकञ्चोपवीतमुक्तम् । तच्छ- न्दोगेतरपरम् । शाखान्तरसूत्रकारत्वात्तेषाम् । एवं स्वशब्दो- पादानात् तस्य च कार्पासे प्रसिडे: कार्पासमुपवीतं छन्दोगा- नाम् । एवमाचार्येण सूत्रं वस्त्रं वा इत्यभिधानात् सूत्राभावे वस्त्रस्य विधानावगते: वस्त्राभावे सूत्रविधानमपि छन्दोगेतरपरं बोध्यम् । । अत्र यद्यपि सत्यामपि व्रोहीनवहन्तीति व्रीहिका- कारिणि यवेऽम्यवघातादयः क्रियन्ते, तथापि यज्ञोपवीतकार्य- कारिणि वस्त्रादौ न वितादिनियमः । वितादेर्यज्ञोपवीत- पदार्थान्तर्निविष्टत्वेन यज्ञोपवीतधमत्वाभावात् अन्यन तदप्रसक्तेः । अवघातादीनां ब्रीहिपदार्थान्त निविष्टत्वाभावेन व्रीहिम्मत्वात् अवघातादिविधौ व्रीहिपदेन ब्रोहियागावान्तरापूर्व्वसाधनस्य लक्ष्यमाणत्वाच यवे तदाचरणं युक्तमेव ॥ २ ॥ २