पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९. कम्प्रदीपः । [ १प्र. १ख. ] पृष्ठवंशे च नाभ्याञ्च धृतं यद्दिन्दते कटिम् । तडायमुपवीतं स्यान्नातोलम्बं न चोच्छ्रितम ॥ ३ ॥ परिशिष्टप्रकाशः १० इदानीं देर्ध्यमुपवीतस्याह । पृष्टवंशनाभ्योद्धृतं सत् यत्कटिपर्यन्तं लम्बते तदुपवीतं धारयेत् । नातोऽधिकं लम्बमानं नापि जड़ें वितं हसमितियावत् । एतच गोभिलीयानाम्। अन्येषां तु, “स्तनादूईमधोनाभेर्न कर्त्तव्यं कथञ्चन” । इति देवलेनोक्तं प्रमाणमिति । “यज्ञोपवीतमानाभे:” इति बौधा- यनोक्तस्याप्येषैव व्यवस्था । स्नातकैच द्वे यज्ञोपवीत धार्थे । तथाच वशिष्ठः, - “स्रातकानां हि नित्यं स्यादन्तर्वासस्तयोत्तरम् । यज्ञोपवीते द्वे यष्टिः सोदकञ्च कमण्डलुः" ॥ ३ ॥ प्रभा । उपवीतस्य परिमाणमाह । पूष्ठवंशे चेति । यदुपवीतं पृष्ठ- वंशे नाभ्याच घृतं सत् कटिं विन्दते लभते कटिपर्यन्तं लम्बते इत्येतत् । तदुपवीतं धायें, न पुनरतो लम्बं नाप्युच्छ्रितं इख- मित्यर्थः । परिमाणान्तरमाह गोभिलपुत्रो गृह्यासंग्रहे । “स्तनादूई मधोनाभेर्न कर्त्तव्यं कथञ्चन । स्तनादू श्रियं हन्ति अधोगाभेस्तपःचयः” ॥

  • नातिबम्यं, इति क ख ग पुस्तकेषु पाठः |