पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्मप्रदोषः । [ १प्र. १ख. ] त्रितं विसरमित्यर्थः । अथवा नवगुणं विसरडयेन षट्तन्तुक- मित्यर्थ: । क्षौमं अतसीभवम् । एतेन, “उपवीतमयुग्मसरं विषमतन्तुकम्” इति गृह्यपरिशिष्टोक्तमपि स्पष्टीकृतम् । एतच्च सूत्रमयोपवीतधारणं वस्त्राभावे । तथाच निगमपरिशिष्टम् । “वाससा यज्ञोपवीतानि कुर्य्यात् तदभावे विवृता सुवेण कुशमुञ्चबालशररज्जुभिर्वा" । बालोऽत्र गोबालो देवलवचनात् । भत्र च कुशशरगोबालादिषु गुणविसरादिनियमो नास्ति । सूत्र एव तबियमोपदेशात् । अवघातादयस्तु ब्रीहिधमत्वात् तत्कार्य- कारियवेष्वपि कर्त्तव्याः । भव तु गुणविसरादिकं यज्ञोप- वीतान्तर्गतं न तु तदः । पुरोडाशादिकं तु न यागपदार्थ- निविष्टं किं तु द्रव्यमातम्। अन्यथा प्रधानस्यातिदेशाभावात् अनतिदेशापत्तेः। अन्ये त्वाद्दुः, - यज्ञोपवीतानीत्युत्तरीधे गौणं तहम्भविन्यास प्रात्यर्थमिति ॥ २ ॥ . प्रभा । यज्ञोपवीतं कुरुते सूत्रं वस्त्रं वा अपिवा कुशरज्जुमेवेति गोभिलस्वे सूत्रं यज्ञोपवीतं कुरुते इत्येतावन्माचमुक्तम् । तदेव गुणसरायभिधानेन सष्टयति। त्रिदूईहतमिति । त्रिगुणं कृत्वा जतं का, तन्तुजयमघोहतं विटतच कार्य्यम् । एवं गुण- यस्य विगुणोकरणेन नव तन्तवः सम्पद्यन्ते । तथाच ह्या “यज्ञोपवीतं कुर्वीत सूत्रेण नवतान्तवम्" ।