पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. ७ख. ] कम्प्रदीपः । अष्टाङ्गुल: प्रमन्थ: स्याचावं स्याद् द्वादशाङ्गुलम् । ओविली द्वादशैव स्यादेतन्मन्थनयन्त्रकम् ॥ ५ ॥ परिशिष्ट प्रकाशः । अरण्योरेतप्रमाणं कान कथितम् । उच्चता चत्वारोंऽगुष्ठाः । शेषं सुगमम् ॥ ४ ॥ चात्रगर्भस्थो मन्थनार्थः काष्ठविशेषः प्रसन्यः, सोऽष्टाङ्गुल: स्यात् । एतदरण्यादिचतुष्टयं मन्थनार्थं यन्त्रकं यन्त्र इत्यर्थः । शेषं निगदव्याख्यातम् ॥ ५ ॥ प्रभा । परिमाणमित्यर्थ: । षडङ्गुत्लास्तयोः पार्थवं पृथुत्वं, तत्परिमाणमिति यावत् । चत्वारोऽङ्गुला अरण्योरुच्छ्रय उच्चतापरिमाण मित्येतत् । तदेवमरण्योः परिमाणं सर्व्वतोभावेन कथितम् ॥ ४ ॥ अष्टाङ्गुल इति । चात्रमध्यस्थो मन्यनार्थः काष्ठविशेष: प्रमन्य- इत्युच्यते । स खखष्टाङ्गुलपरिमाणः स्यात् । चात्रमोविली च दादशाङ्गुलपरिमाणं स्यात् । एतत् सर्व्वे मिलितं यथाविन्यस्तं अत्यनयन्त्रं इति कथ्यते मन्यनयन्त्रकमिति स्वार्थे कन् । गोभिलपुवेंगा प्येत्रमेव मन्यनयन्वमुक्तम् । केवलमरण्योदीर्घतायां अन्यदपि परिमायडयमुक्तम् । तथाच ग्टह्यासंग्रह:- “आश्वत्योन्तु शमोगर्भामरणीं कुर्वीत सोत्तराम् । जरुदोघी रनिदोघी चतुर्विशाङ्गुलां तथा ॥ इति । खादिरे बन्नाति पालाशे बनाति रोहितके बनातीति वदमोषां विकल्पो बोदव्यः ॥ ५ ॥ १४