पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ कप्रदीपः । [ १प्र. ७ख. ] संसतमूलो यः शम्या शमीगर्भः स उच्चते । अलाभे त्वशमोगर्भादाहरेदविलम्बितः ॥ ३ ॥ चतुर्विएशतिरङ्गुष्ठा दैर्घ्यं षडपि पार्थवम् । चत्वार उच्छ्रयोमानमरण्योः परिकीर्त्तितम् ॥४॥ परिशिष्टप्रकाशः । शमोगर्भं व्याकरोति । शम्या सह मूलं यस्य रुम्यक् लग्न- मेकीभूतं, स शमोगर्मोऽभिधीयते । तदलाभे अखत्यान्तरादपि विलम्बरहितोऽरण्याहरणं कुर्य्यात् ॥ ३ ॥ अरविदयपरिमाणमाह -- षडङ्गुष्ठाः पार्थवं पृथुत्वं प्रस्तार इति यावत् । उच्छाय. प्रभा । मुनिभिः कथिता । चात्रमोविली च सारयुक्त खदिरादिकाष्ठ- निर्मितं मुनिभिः प्रशस्यते । चात्रं नाम मन्यनदण्डं, चावीईभाग- नियन्त्रणार्थः काष्ठविशेष श्रोविलो ॥ १ ॥ २ ॥ इदानीं शमोगर्भस्य लक्षण माह संसक्तमूल इति । यस्याख- त्यस्य मूलं शम्या सह संसक्तं सम्यग लग्नं, सोऽश्वत्यः शमोगर्भः कथ्यते । शमीगर्भस्याश्वत्थस्थालाभे पुनरशमोगर्भादप्यरणिमाहरेत् । गुणलोपे च मुख्यस्थेति न्यायादिव्यभिप्रायः । शमोगर्भस्यान्वेषण्या कालविलम्बो न कर्त्तव्य इति वक्तुम विलम्बित इत्युक्तम् ॥ ३ ॥ भरण्यादीनां परिमाणमाह चतुर्विंशतिरिति डाभ्याम् । चतुर्विंशतिसंख्याका अङ्गुष्ठा अङ्गुष्ठाङ्गुला अरण्योदेर्ध्वं दीर्घता- A