पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्डः । अश्वत्यो यः शमौगर्भः प्रशस्तोवसमुद्भवः । तस्य या प्राङ्मुखौ शाखा योदौची योङ्क्षगाऽपि वा ॥१॥ अरणिस्तन्मयी प्रोक्ता तन्मयौ चोत्तरारणिः । सारवद्दारवं चात्रमोविली च प्रशस्यते ॥ २ ॥

परिशिष्ट प्रकाशः । मथनेतिकर्त्तव्यतामाह - आरणेयस्य मेध्यभूभौ यः शमोगर्भोऽखत्योजातः, तस्य या प्रायग्रा उत्तराग्रा ऊर्हगा वा शाखा, तन्मयी अरणिरुत्तरारणिय शास्त्रोक्का | सारयुक्त खदिरादिदारुभवं मन्यनदण्डरूपं चावं चावईयन्त्रणार्थकाष्ठरुपा ओविली च प्रशस्ता भवतीति ॥१॥२॥ प्रभा । आरणेयस्य मन्थनप्रकार व प्रथमं मन्यनयन्त्रघटक मरण्या- दिकमाह अम्बत्योय इति द्वाभ्याम् । शमोगर्भस्य लक्षणं वक्ष्यते । पवित्रभूमौ जातो यः शमोगर्भोऽखयः तस्य प्राङ्मुखी उदक्- गता ऊर्हगता वा या शाखा, अधरारणिरुत्तराणिञ्च तन्मयो

  • मौविली, इति पाठान्तरम् । एवं परल ।