पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । [ १प्र. ६ख. ] अथ चेन्न लभेतान्यां याचमानोऽपि कन्यकाम् । तमग्निमात्मसात् कृत्वा क्षिप्रं स्यादुत्तराश्रमी ॥ १५ ॥ षष्ठः खण्डः । परिशिष्टप्रकाशः । . यदि चान्यां कन्यां प्रार्थयवपि न प्राप्नोति। अनेन ब्राह्मा- दैवादिविवाहव्यतिरेकेण याज्जापूर्व्वकाप्रशस्तविवाहेनापि गाई- स्थ्याय यतनयमित्युक्तम् । तदाऽऽहिताम्निः प्राजापत्येष्टिं कृत्वा तमग्निमालन्यारोप्य शीघ्रं चतुर्थाश्रमी स्वादिति ॥ १५ ॥ प्रभा । अथ चेदिति । यदि प्रार्थयमानोऽप्यन्यां कन्यां न लभते; तदा तमाहितमम्निमात्मसात् कृत्वा प्राजापत्येष्टिविधिना श्रामनि समारोप्याविलम्बेन चतुर्थायमी भवेत् । याचमानो- उपोत्यनेन ब्राह्मरादिप्रशस्तविवाहासन्भवे यात्रा पूर्व्वका प्रशस्त विवाहेनापि गृहस्थाश्रमप्रवेशाय यतितव्यमित्युक्तम् ॥ १५ ॥ इति षष्ठः खण्डः ।