पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्रः ६ख. ] कम्प्रदीपः । अनूढैव तु सा कन्या पञ्चत्वं यदि गच्छति । न तथा व्रतलोपोऽस्य तेनैवान्यां समुहहेत् ॥ १४ ॥ १०१ परिशिष्टप्रकाश: । यस्य केनचित्कन्यादावा सत्येन वाचा कन्या दत्ता भवेत्, स एवान्त्यममिदाधानं करिष्यन्नादधीत नान्यथेति ॥ १३ ॥ सा यद्यकृतपाणिग्रहणैव विनाशं याति, तथा सत्यस्य होतांग्नेरा हिताग्निताव्रतस्य वाग्दत्ताया अदाहे न लोप: । किं तर्हि तेनैवाग्निना अन्य समुहहेत् ॥ १४ ॥ । प्रभा । H ब्रह्मचर्य्यपरिसमाप्तिसमयेऽन्त्य समिदाघानार्थ मग्न्याधानं गोभिले- नोक्तम् । तत्र विशेषमाह यस्येति । यस्येति संबन्धलक्षण षष्ठी | केनचित् कन्यादावा यस्मै कन्या सत्येन वाचा दत्ता भवेत्, स एवं अन्य समिधमाधास्यवग्निमादधीत । नान्यथा न तथा- विधवाग्दानाभावे । तथाले समावर्त्तनात् परं झटिति कन्याया अलाभे कञ्चित् कालमनाश्रमौ स्यादिति भावः ॥ १३ ॥ अनूढ़ेवेति । यद्यकृतविवाहैव सा कन्या म्रियते, तथा सत्यस्याहिताग्नेर्वतलोपो न भवति । तेनैवाग्निनाऽन्यां कन्या- मुद्दहेत् । एतेनाहितेनाग्निना वाग्दत्ताया दाहो न कर्त्तव्य इत्युक्त भवति । तथा करणे ह्याहिताग्निताव्रतमस्य लुप्येत । तेनैवान्यां समुद्रहेदिति चानुपपनं स्यात् ॥ १४ ॥