पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० कम्प्रदीपः । [ १प्र. ६ख. ] यस्य दत्ता भवेत्कन्या वाचा सत्येन केनचित् । सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा ॥ १३ ॥ परिशिष्टप्रकाशः । ब्रह्मचारी वेदमधीत्यान्त्यां समिधमभ्याधास्यन् इत्यनेन स्त्रेण सायं प्रातर्विहितसमिदाधानेन ब्रह्मचारिण अल्या पश्चिमा समिद्रह्मचर्य्यसमाप्तिसमये यस्मिन्नम्नावाधातव्या तमादध्यादित्यु- तम् । तत्र विशेषमाह, - प्रभा 1. उक्ताः । अपि वाऽन्यं मथित्वाऽभ्यादध्यात् पुण्यस्वेवा नडु को भवती- त्यारणेयस्य पुण्यत्वमुक्तम् । तत्वोच्चते । पुण्यमेवाग्निमादधीत । यस्मात् स सर्व्वेः प्रशस्यते । पुण्यातिशयहेतृत्वात् । तथाच ग्टह्या- न्तरम् । आरीयमुरुपुण्यकोषकाम इति । देवाच पुनराधाने कर्त्तव्ये पूर्वेवाग्लियोनिराजयितव्या भवतीति वच्यते । तत्र स्वाधीनेयमग्नियोनिरिति प्रशस्ता | अन्यासान्तु वैश्यकुला- दोनामग्मियोनीनां पराधीनत्वादप्राशस्त्यम् । यत्तु अनर्बुक- इत्यनेनारणेयस्य ऋद्दिजनकत्वं नास्तीत्युक्तम्, तत्तु तत्र कृतैः काम्यै हमे शमं नीयते । एतदुक्तं भवति । सत्यमारणेयस्थाधान.. मृद्धिं न जनयति, कित्वाहिते आरणेयेऽग्नौ ऋडिकामनया कृतैर्होमैः ऋधिरपि तदाधातुर्भवत्येवेति ॥ १२ ॥ ब्रह्मचारी वेदमधीत्यान्त्यां समिधमभ्याधास्य वित्यादिना