पृष्ठम्:करणप्रकाशः.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टधिकारः । २३ शु=६७ । श८८ ॥ एते सार्धचतुर्भिर्गुणिता जातः शीघ्रपरिधिभागः ते खार्कत्रिज्याहता भांशहूता युग्मान्ते शश्नान्यफलज्याः । भौ=७९३ । वृ=४ ३३ । गु=२४ । शु=८३ । श=१३३ । ओजान्ते भ८७६३ । वृ=४ ३३ । गु=२२३ । शु=८९३ । शं=१२ ॥ स्वल्पान्तरादेना- न्तीयशीखान्त्यफलज्यासमा आचार्योक्ताः सन्तीति सुधीभिर्येयम् ॥ १ ॥ शीघ्रोचं ग्रहवर्जितं चलभवं केन्द्रं भुजज्या ततः प्राग्वद्वाहुलखोनितास्वरनव-६०ज्या कोदिजीवा भवेत् । ऐक्यं यच्छलघातकोटिगुणयोः केन्द्रे मृगावेऽन्तरं कक्षीवैौ सति तद्वजोत्थगुणयेईंगैक्यमूलं धृतिः ॥ २ ॥ चलघातञ्जलगुणः खार्कत्रिज्यायां शीघ्रान्त्यफलज्या । शेषं स्पष्टार्थम् । अत्रोपपत्तिः । ‘स्वकोटिजीवान्त्यफलज्ययोर्यो योगो मृगादावथ कर्क यादौ । केन्द्रेऽन्तरं तद्भुजजीवयेर्यङ्गैक्यमूलं कथितः सकर्णः ॥ इति भास्करविधिना कीनयनस्य वासना स्फुटैवेति ॥ २ ॥ दोज्य हता चलगुणेन तु कर्णभक्ता चापीकृताऽsफलमस्य दलं लवाद्यम् । स्वर्गं प्रहे क्रियतुळादिगते स्वकेन्द्र कृत्वा ततो व्यपनयेन्मृदुकेन्द्रभागान् ॥ ३ ॥ ततो मन्दोच्चादर्धशीत्रिफलसंस्कृतमध्यग्रहं व्यपनयेत् शोधयेत् । ततो मृदुकेन्द्रभागान् विधाय बाहुगुणः कार्य इत्यग्रेसम्बन्धःशेषं स्पष्टार्थम् । अत्रोपपत्तिः । ‘घाताद्धजज्यान्त्यफलज्यया कर्णाङतादित्यादिना भास्करोक्तेन स्फुटा । धनणवासना च गोलयुक्त्या सिद्धान्ताविदां विदि तैवेति । ‘मध्ये शीघ्रफलस्यार्धमिति सूर्यसिद्धान्तप्रमाणेनादौ मध्ये शीघ्र फलार्धसंस्कारः कृतः । ततः कर्मद्वयेऽपि समानं मन्दफलं स्वल्पान्तर- तोऽङ्गीकृत्य मन्दफलार्थसंस्कारो न दत्त आचार्येण किन्तु मध्यमे सम्पूर्ण मन्दफलमेव दत्तमित्यग्रछोकेन सर्वं स्फुटमिति । अयमेव विधिर्द्रहलाघवकारेण गणेशेनापि स्वीकृत इति ॥ ३ ॥