पृष्ठम्:करणप्रकाशः.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ करणप्रककाशे । सूर्येन्दुयोगे व्यतिपातवैधृतौ भार्ये भचक्रे गतियोगभाजिते । न्यूनाधिके गस्यगतं दिनादि पातः स्फुटः कान्तिलवैः समैः स्यात् ॥१८॥ इति करणप्रकाशे तिथ्याद्यधिकारः ॥ २ ॥ यदा रविचन्द्रयोः सायनयोर्योगो भषट् चक्रे वा भवति तदासन्ने व्य तिपातवैधृतौ पातौ भवत इति सर्वे भास्करीयपाताधिकारतः स्फुटमिति।।१८॥ श्रीमत्कृपाणेस्तनयेन येन नयेन सत्येन सुधाकरेण । सद्वासनाऽकारि बहुत्र तेन विदोदितो भादिविधौ तु हेतुः ॥ इति करणप्रकाशस्थ सद्वासनायां तिथ्याद्यधिकारः समाप्तः ॥२॥ अथ पञ्चतारास्पष्टाधिकारः । नागेश्वरा११८दशयमा२१०गगनष्टचन्द्राः १८० स्खझ६० रसानलयमा २३६ मृदुतुङ्गभागाः । शैब्यू गुणा मुनिनगा-७७ स्त्रिकृता ३ द्विदस्राः २२ षट्कुञ्जरा ८६ दिनकरा-१२ श्च कुजादिकानाम् ॥ १ ॥ शैब्यू गुणाः शीघ्रान्त्यफलज्याः खार्कमितव्यासदले भौमादीना- मेताः । भीौ=७७ । व=४३ । गु=२२। गृ=८६ । श=१२ । शेषं सद्यार्थम् । अत्रोपपत्तिः । मन्दोच्चानामत्यल्पगतित्वात् स्थिरांश आचार्येण पठिता यथा लठेन च स्वतन्त्रे “वस्वीशा दशबाहवोऽम्बरधृतिः खाङ्का रसध्याश्विने मन्दांश’ इति पठिताः । यद्यपि लछमतेन युग्मैजपदीय शीघ्रपरिधिभेदेन भिन्न भिन्नाः शीघ्रफलभागास्तथाप्यत्राचार्येण स्थूलतया स्थिरान् प्रकल्प्य खार्कव्यासदले पूर्वोक्ता भौमादीनां शीघ्रान्त्यफलज्याः पठिताः । लङमतेन युग्मान्ते शैब्यू गुणाः भौ=१३ । बृ=३१ । गु= १६ । शु=९९ । श=६। ओजान्ते भौ=६१ । बु=२९ । गु=१९ ।