पृष्ठम्:करणकौस्तुभः.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ २ ]

कौस्तुभस्य दृष्टान्तत्वेनोपादानाद्यथा स मणिर्निर्मलोऽत एव स्वप्रभयाऽन्धकारस्थितं वस्तु सम्यक् प्रत्याययति तथाऽयं करणग्रन्थो निर्दोषः सन्दृक्प्रत्ययतुल्यगणितं प्रतिपादयतीति सूचितम् ।  सोऽयं कृष्णदैवज्ञविरचितः करणकौस्तुभः स्वकृतस्यैव तन्त्ररत्ननाम्नोऽतिविस्तृतस्य ग्रन्थस्य संक्षिप्तः परिणाम इति मन्ये । तस्यास्य महतस्तन्त्ररत्नस्य हस्तलिखिता पुस्तिका शंकरदीक्षितानामथवाऽन्येषां केषांचित्दृक्पथं नाद्ययावत्समापतिता । अतः करणकौस्तुभप्रन्थगतानां तत्तत्स्थलीयशङ्कानां परिमार्जने सर्वोत्कृष्टं साधनमज्ञातावस्थामनुभवतीति महाराष्ट्रवाचकान् संश्राव्य तादृशतन्त्ररत्नग्रन्थपुस्तिकासंपादने प्रयत्नवद्भिस्तत्रभवद्भिर्भवाद्भिर्भवितव्यमिति तान्विज्ञापयितुं करणकौस्तुभग्रन्थसंबन्धिनः कांश्चिद्विपयान्संक्षेपत उल्लिलिखिषामि । अत्र ग्रन्थे भागापरपर्यायाश्चतुर्दशाधिकाराः सन्ति । ते च यथा -

१-मध्यमग्रहसाधनाधिकारः २-चन्द्रसूर्यस्पष्टीकरणाधिकारः
३-पञ्चतारास्पष्टीकरणाधि० ४-त्रिप्रश्नाधि
१-चन्द्रग्रहणाधि ३-सूर्यग्रहणाधि०
७–तिथिपत्रतो ग्रहणसाधनाधि० ८-उदयास्ताधि०
९–ग्रहच्छायाधि० १०-चन्द्रशृङ्गोन्नत्यघि ०
११-ग्रहयुत्यधि १२-नक्षत्रच्छायाधि०
१३-पाताधि० १४–पातसंभवासंभवलक्षणाधिकारश्चेति ।

एतावतैवं स्थूलमानतो ज्ञायते यदेतद्ग्रन्थस्य रचनासरणी ग्रहलाघवानुसारिणीति । यतोऽयं कृष्णदैवज्ञो ग्रन्थारम्भे ग्रन्थनिर्विघ्नपरिसमाप्तिप्रचारादिप्रतिबन्धक दुरितोपशमाय वन्दे केशवदैवज्ञसार्वभौमपदाम्बुजमिति ज्योतिर्वित्सार्वभौमकेशवदैवज्ञचरणारविन्दवन्दनरूपं मङ्गळमाचरति ततो ग्रहलाघवकारस्य गणेशदैवज्ञस्य पितरि केशवदैवज्ञविषयेऽतीवाऽऽदरभावं भजत इत्यनुमीयते । ततश्व केशवदैवज्ञप्रणीतज्योतिर्ग्रन्थेष्वपि आदरभागयमित्युक्तिरपि पुनरुक्तिरेवेति । करणकौस्तुभनाम्नि एतस्मिञ्ज्योतिर्ग्रन्थेऽनेन ग्रन्थकर्त्रा गणितारम्भप्रवर्तकं वर्षमानं पञ्चर्षिभूतभूमितं (१५७५ ) परिगृहीतं तथा क्षेपकाङ्काश्चापि तद्वर्षीयमेषसंक्रमणकालसंभवा निर्दिष्टाः । परं चेतरत्र क्वापि ज्योतिर्ग्रन्थेषु दृष्टिपथमनवतरन् कश्चिद्विशेषोऽत्र प्रतिपादितः । स यथा-सप्तर्षीणां क्षेपकाङ्कान् ६ रा० ११ अं० ३० क. परिमितान्निर्दिश्य तेषामृषीणां वार्षिकी गतिरष्टौ कलाः (८ क.) अर्थादेकस्मिन्वर्षशतके एकनक्षत्रपरिमितेत्यचकथत् । तदिदं सप्तर्षिकाळपरिगणनं काश्मीराख्यक्षेत्रवर्जमितरत्र प्रदेशे कुत्रापि केनापि नाङ्गीकृतं दृश्यते नापि वा