पृष्ठम्:करणकौस्तुभः.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रस्तावना

अथैष आनन्दाश्रममुद्रणालये करणकौस्तुभनामा ज्योति:शास्त्रीयग्रन्थः प्रकाश्यते । सोऽयं गोब्राह्मणप्रतिपालकेत्यादिबिरुदावलीविराजिते शिवरायाभिधे महराजे महीं प्रशासति सति तदनुशासनेन ज्योतिर्विदा कृष्णदैवज्ञेनं विरचित इति बालकृष्णात्मजशंकरदीक्षितैर्भारतीयज्योतिःशास्रनाम्नि ग्रन्थे (पृ ०२९०।२९१) इत्यत्र प्रतिपादितम् । तत एवेदमधुनातनानां महाराष्ट्रवाचकानां विदितमभूत् । ननु ग्रहलाघवादिप्रभृतिबहुविधेषु करणग्रन्थेषु सत्सु किमर्थमयं कृष्णदैवज्ञ एतद्ग्रन्थकरणे प्रवृत्तोऽभूत् । किमर्थं च शिवरायेणायं तादृग्रन्थरचनायां प्रवर्तितः इति चेच्छृणु । यद्यपि ग्रहलाघवादयः करणग्रन्थाः स्वल्पायाससाध्य गणिताः सुलभावबोधाश्च सन्ति तथाऽपि आसेतु आहिमाचलं सर्वत्र महीमण्डले पञ्चाङ्गनिर्माणे प्रायः शिष्टैर्ग्रहलाघव एवाऽऽद्रियते । स च ग्रहलाघवनामा ग्रन्थो गणेशदैवज्ञेन नेत्रवेदाब्धिभूमिते (१४४२ ) शके प्राणायि । तत आरभ्य भूतद्वीन्दुपरिमितेषु (१२५) वत्सरेषु व्यतीतेषु ग्रहलाघवसाध्यगाणितं न समीचीन्येन दृक्प्रत्ययतुल्यतामवतरतीति ग्रहलाघवविषये आक्षेपवादो लोके प्रवृत्तः । अथ चायोग्यकाले अनुष्ठीयमानमपि कर्म सफळे सुखोदर्कं च न भवति । लोकेऽपि यथाकाल एव कृतं कर्म फलदं भवति । यथा बीजावापादि कृषिकर्म प्रावृट्काले कृतं चेत्तदैव फलदं भवति । अन्यथाकाले कृतं चेत्तत्र वृष्टेरभावाद्धान्यलाभो न भवतीत्येतावदेव न किंन्तूप्तं बीजं नाङ्कुरमप्यासादयतीति सबीजस्य लाभस्य हानिरिति स्पष्टम् । तथा शरीरे चन्दनानुलेपनमुष्णकाले क्रियमाणमेव सुखपर्यवसायि दृश्यते नान्यकाले क्रियमाणम् । प्रत्युत शीतकाले शीतोपचारः क्रियमाणो हिमज्वरादिकं निष्पादयेदित्यपि संभवतीति महदनिष्टं प्रतीयते । तथाच व्यवहारविषयेऽपि अव्यवस्था प्रसज्येतेत्यनुसंधायेमामव्यवस्थां परिहर्तुं यथा महाराष्ट्रीयभाषाशुद्ध्यर्थं राजव्यवहारकोशनामा ग्रन्थो राजव्यवहारकुशलैर्निष्पादितस्तथा पञ्चाङ्गशुद्ध्या एव करणकौस्तुभनामा ग्रन्थः संक्षिप्तः सन्सुलभोऽपि दृक्प्रत्ययगणितयोस्तुल्यतामापादयञ्छ्रीशिवरायमहाराजेन कृष्णदैवज्ञेन कारित इति

प्रकुरु तत्करणं ग्रहसिद्धये। सुगमदृग्गणितैक्यविधायि यत् ।
इति नृपेन्द्रशिवाभिघनोदितः । प्रकुरुते कृतिकृष्णविधिज्ञराट् ।

इति तदीयश्लोकात्सिध्यति । एतद्नुसंधायैव ग्रन्थकर्त्राऽस्य करणकौस्तुभ इति नाम व्यधायि । खगोलस्थितत्तज्ज्योतिश्चक्रीयतत्तद्रेखांशगतग्रहनक्षत्रादिज्ञानोपायभूतो ज्योति:शास्त्रीयग्रन्थः करणशब्देनोच्यते । स च कौस्तुभ इवेत्युपासितसमासः । अत्र