पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः स लालसोसेस्सलिले सलीलं लोलाल-सिसुलं लिलासुः। ससीससालां सलसुलसांससालो ललासोल्ललसैलसंसत् ॥ १११ ॥ अपुनर्वृद्धवे क्रुद्धो द्विषोऽदारीत्स तावतः । सर्वङ्कषोपि शश्राम सनस्यन्दा ...यमः पापिनोऽपि पुनानेन पीनपीनाननूपिना । पानिनान्ननिपानेन पन्नं पन्नं पये पुनः॥११३ ॥ स्तम्भकैस्तस्य विस्तारप्रस्तावैस्तिमितैस्तदा । अस्तमीये समस्तैस्तैरगस्त्यग्रस्तसिन्धुवत् ॥ ११४ ॥ दूरेदरादराद्रेरुदारो रुद्ररौद्ररुक् दरिद्रार्द्रो रुदद्दारादरदोददरद्रुदन् ॥ ११५॥ विच्छायाच्छिन्नसंचारा शान्तलोका द्विवश्चमूः । तत्प्रतापैकतप्ताभून्मध्याह्न इव मेदिनी ॥ ११६ ॥ पुंपिप्पलोल्पाल्पपलापलेय- पल्लालपालेलिपिलोलपूलम् । पालालपूलोपललां लुलोप लोलोल्लुपा पल्लपपीलुपालीम् ॥ ११७॥ उपर्युपरि तद्भग्नास्तथा जगृहिरे परे । दिशा पृथ्व्योऽपि येनैतैः सम्बाधा इव मेनिरे ।। ११८ ॥ यताततायी यातायां युतेतोयायितायतिः । यतौ यातुतयातीये तापीयातो ययातिताम् ॥ ११९ ॥ 110-112 Not found in M 118bM पापान for पीनान 1145,M स्तिमित: for स्तिमितैः 116;M omits. 117 Reednige of Nare given; those of M being corrupt. 118,M द्विषः संघोप्य येनेमः 119,M omits