पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः स धीनिधेरगाधोग्रगरिमापि घरागुरोः । घाम्नारान्निधनं प्राप परसंगरसागरः ॥१२०॥ विव्यवायवयायो वायवीये व्यये बुवन् । ययावयाव्यावयवो ययाविन युवा वियत् ।। १२१ ॥ भासुरासिः स्मरामास्यो यमास्ये गमयन्नरीन् । जायमानजयामाजौ लीलामलभतामयः ।। १२२ ॥ (दशव्यञ्जनबन्धः) रैरी रूरूररोरारु रूरुरोररिरुरत् । रुरी ररे ररे वीरररौ रुरुररं ररौ।। १२३ ।। (एकाक्षरः) सारगी सगरानूनधनसर्गो मनोरमः । स रागरोगारागारिगुरोग्रे मार्गमागमत् ।। १२४ ॥ मायातश्च्युतिमायातः शोभितः शतशोऽभितः । स व्यासं धाम्नि सव्यासं मानशेवधिमानशे ।। १२५।। (आधन्तयमकः) मीलितामेयगजतं गलतुरगमातरम् संयुगं निर्जनामं स भिन्नारातिमजीजनत् ।।१२६ ॥ (दशव्यञ्जनबन्ध) आयोधनानि विभवः स्वरसादरीणां मानोदयादिहयोगमिता विनाशम् । आयोधनानि विभवः स्वरसादरीणां मानोदयादिहरयोगमिता विनाशम् ।। १२७ ॥ (समुद्ग्यमकम्) 120,121,129,124, Bendings of Nano 1965;M ETA given; those of Mbeing very corrupt. 1978 M F lor er 12%, omits d. Men for de दिवर 125dM सेवधि for शवधि