पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः आत्मा कौरवमोक्षेण कलङ्कीककलासनात् दुःशासनानुरक्तो वा कथं भीमो भविष्यति ।। ७५ ।। प्रकृत्या विमुख कान्तः कृतान्ते सङ्गतो रवान् । यस्याभिधाता ताम्प्राक्षीदवसानविधौ सवः ।। ७६ ।। (कथितापलषतकः) एषा हि भवतो युद्धात्पलायनपरायणान् हसति श्रीर्दलद्दन्तिकुम्भमुक्तास्मितोद्गमैः ।। ७७ ॥ कोऽयः शब्दो वार्ता लक्ष्म्या नाशा कस्मिन् दुःसन्धेये । कोऽसौ पासो राशिश्लोको वेषायालं तातोऽतीते ॥ ७८ ।। (कथावस्त्वपरित्यागेन प्रश्नोत्तरम्) स जीवति रूषा यस्य द्विषन् दग्धो न जीवति । एलायते यस्तद्भीतो लक्ष्मीस्तस्मात्पलायते ॥ ७९ ॥ चेतश्चेद्वीर्यविमुखं व्रीडा वा स्वीकृता ततः। दुस्तरामात्मकर्माणि गतमानोऽयशःसखा ।। ८० ॥ (क्रियागुप्तिः) दिगन्तानयमामेन सेनामस्मद्भिया रणात् । साधु साधो यथार्थत्वं सेनानीत्वे त्वयार्पितम् ।। ८१ ॥ भयेन यस्यावसरोन्तये रुषामरौ समायातरसो नदीयते । यशःप्रवाहोऽस्य शुचिः समीकभूमरौ समाया तरसो नदीयते ।। ८२ ॥ स प्राणिति सत्तेजा या स वाग्मी युधि वक्ति यः। अस्या इति गिरं गर्जन्मानैकाङ्कक्रुधः सखीन् ।। ८३॥ (क्रियागोपितकः) हे हे राजसभे कस्मादकस्मादसि कातरा । एषा हि वेला युद्धेडत्र पुण्यपण्यापणावनिः ॥ ८४ ।। 81-84, Not found in M 75-78, Not found in M Boi,N गतिमारो-यशः सखीम for Tतमानो वक्षः सखा