पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः वायुर्बलाहककलापमिवाभिलीय लोलाविलोलमलुनाद्वलमेलब्धः ॥६५॥ (गूढचतुर्थः तेन शत्रुकुरङ्गेभद्विषा दमयता युधे । स्पृहा रिपोर्ददे दूराद् द्विषा दमयता युधे ।। ६६ ॥ सोऽथ सेना द्विषो वीक्ष्य द्रवन्तीरित्यवोचत । मथनेन मिथो लक्ष्यस्रवद्भूरित्यवोचत ।। ६७ ॥ (गोमूत्रिकाबन्धः) भ्रुवां भवद्भिरूदेशा आसामासेविता न के। क्व न कीर्तिमये सद्य आसामासे वितानके ॥ ६८ ॥ पलायमानं पुरुषं रक्तपङ्कप्लुते पथि । अतिकोमलया गत्या कथं श्रीरनुयास्यति ।।६९ ।। निजताजनि हत्त्वेह मानं मा विभुता भुवि । न च काचन सारासा माया मा रिपुतापुरि ।। ७० ।। (प्रातिलोम्येन स एवार्थः) नाक्षमोपितमोजो न समाप्तिर्गूढचर्मया । नशल्योद्धरणे यत्नः कोऽयं वो धर्मसंभवः ॥ ७ ॥ ध्यामिमात् कौमुदीकान्तमानिभावो नराजितः । केनासौ सहवृद्धोऽपि मानिभावो न राजितः ॥ ७२ ॥ शौर्यासक्त विरक्ताश्चेदुच्चैराधेयभीरवः । कुन्तेस्तीतास्तद्यूयसपार्था एव सम्प्रति ।। ७३ ॥ यानवार्ता सती ज्ञेया यागेऽतीव न साव्यया । या व्यसा किन्तु या माया यामाया यनवानया ।। ७४॥ (एद्मबन्धः) 610M for *99* 48,70-73,80$ found in 74a, Nar for ** ON किल्लया for किन्तु या