पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः क्रुत्कण्डूचण्डपाण्डित्य पाण्ड्यो दोर्दण्डपण्डितः । काण्डैः पाण्डुयशः शौण्डो यामकाण्डेऽप्यखण्डयत् ॥ २७॥ धरधीरो धराधारो धारारूरुधुरुद्धुरः । धरौरेधधुराधारं रुरोध रूधिरैर्धराम् ।। २८॥ सान्द्रा ..शिखासारा सुस्कन्धा यशुपोषिता । उच्छायिनी द्रुमच्छाया तस्योष्माणमशीशमन् ॥ २९ ॥ पुरा नृपैरेकलव्य एवमाहाभिषेचितः । अतः कोऽन्यो बले सद्य एवमाहाभिषेचितः ॥३०॥ पृथुरुत्कलिकालाभा तस्य संगरसागरे । लयं प्राप महावर्ता सा महामिषवाहिनी ॥ ३१ ॥ तेजसातिशयानेन युगन्धरजसाविलम् । विमर्दादम्बुना चक्रे सुगन्धरजसाविलम् ॥ ३२ ॥ भृगुसूनुहतानेकनृपोचितधरातलम् । तदीहिते सरुधिरं ददृशे समराजिरम् ।। ३३ ।। (असंयुक्तः) जम्भो बिभ्रद्गुजौ स्तम्माविव स्वानधरेतरः । श्रुतर्षण्यो दधे वंशविवस्वानधरे तरः ॥ ३४ ॥ बभ्रे बभ्रुः क्रुधादभ्रभ्रान्तभ्रूभ्रूकूटीभरात् । मुखमन्तकवद्रौद्रं मद्रकोपद्रवे द्रुतम् ॥ ३५॥ (अतालव्यः) शिविर्धामिव गोत्रारिरहितत्तमसोरजाः । उज्झन्ति यः पपौ बभ्रोरहितस्तमसोरजाः* ॥३६॥ तसद्दामकाण्डरवण्यत् for मकापडेम्ब- 3384 Mottouran M 35a N for BEIN धीधारूविधुरः 36,38, Nos fauna in M 29-31 Not found in M