पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः ज्यायो यशश्च यच्छाय इयायाजौ जयेच्छया। योज्याशोच्याशयः शंयुः शौचशय्याशयोज्यता ॥ ३७॥ (तालव्यप्रायः) कह्नेनैत्य शरास्तस्मिन्नमुच्यन्त कलं घनाः । दिक्चक्रे च यशःसंधा नमुच्यन्तकलग्नाः ॥ ३८ ॥ सेना रूरुधिरे तेन रुधिरेऽरेरूतेऽरुधि । रुतेन सेविना नारे नाधिते नाधिरेधिना ।। ३९ ॥ (गूढपादत्रयः) तदा नात्र सवेतालरासे दूरं गता रणात् कबन्धा नटतामुच्चैरासेदू रङ्गतारणात् ।।४० ॥ सासिभिः साधितास्वाजिवसुधासु युयुत्सुभिः । योधान् द्युललनाः कान्तानालिङ्गवाप्तमुदोऽभवन् ॥ ११ ॥ (अमूर्धन्यः) दहशुभूरिधामानं कुञ्जरोपरि पूषणम् । गिराविवोग्रं पुष्पेषु कुञ्जरोपरिपूषणम् ।। ४२ स सौवीरमचक्षुष्यं गजस्थः कर्परोद्धृतम् । पीत्वा दीपितकोपाग्निश्चक्रे प्राक् पाटवार्जनम् ।। ४३ ॥ नादीनदानीनिनदानदीनानादौ निनादेन नुदन्निदानीम् । नोदन्ददानानदुनोदनिन्दन्नानन्ददो दानददानदूनः ॥४४॥ समरोदरमापूर्य रसेन बलशोषिणम् । रुक्मी तीव्रोत्थितं तर्षमहार्षीदूष्मदीपनम् ।। १५ ।। अथाष्टक स्मरन् प्रीती राजगामानपायिनी। संख्यं चण्डैश्चमूचक्रेराजगमानपायिनीः ॥ ४६॥ 39d,N सेथिना for सेविना. 44a,M नदीनदान for नादीलदानी d,M ननन्ददो for नानन्ददी 43. Not found in M 40-41, Not found in M 426, NUE for NYC for Tees 45-46 Not found in M