पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः सर्गः १२३ चक्रचापपरिघद्रुधनौघप्रासपट्टिशपरश्वधशूलैः । ते गदासिशरशक्तिशतघ्नीवज्रमुष्टिभिरथो मिथ आघ्नन् ॥ ४५ ॥ आततः समरभूशयनीये शीर्णशुरशतशोणितराशिः। आससाद नवसान्द्रकुसुम्भप्रच्छदांशुकतुलां पितृभर्तुः ॥४६॥ मूर्धभिः क्षितिभृतां भुकुटीभिर्भावितैर्भयपदैर्विकटास्यैः । तस्तरे रणधरा शतसङ्ख्यैर्द्यौरिव प्रलयकेतुकलापैः॥४७॥ तत्क्षणं गलविलोल्लसितासृग्यष्टिकोटिघटितांसशिरोऽभूत् । वीरचिह्नमिषुणा ज्वलूनं केशचामरचितं ललितास्यम् ॥ ४८ ॥ न्यङ्निविष्टशरदारिततुन्दभ्रश्यदान्त्रनिगडाञ्चितपादः । स्वान्तनूमपरतन्त्र इवेभः प्रेर्य पर्यणमदन्यकरीन्द्रः ॥ १९ ॥ धोरघालघटमानविमूर्छानुद्यतोऽधिवसुध सुधयोक्षत् । कुञ्जरेन्द्रकरकोटरकीर्णा स्यन्दमानधनशीकरवधिः ॥ ५० ॥ दन्तिदीर्णतनुमूर्ध्वमुदस्य प्राशुना युधि करेण करीन्द्रः। संगमोत्सुकधियै सुरनाय सादरं सुभटमर्पयतीक ।। ५१ ॥ मण्डितः परिणतो गुरुवा प्रौढमूर्तिहरियुग्ममकृच्छ्रात् । दन्तयोरुदवहद् गजराजः शृङ्गयोरिव वृपस्तदपकम् ।। ५२ ।। प्राणितप्रवमनावधियुद्धाः संश्रिताः स्वसुकृतेन विमानान् । स्वप्रभोलपरिक्षयदृष्टौ संक्रुधो बतरितुं पुनरीषुः ॥५३॥ 45,Not found in M 47a,N अकुटीभूत for भृकुटीभिः b, भूविभाभयदैः for भावितर्भयपदैः 48b, M gfe for fe a,Mदामरचित to aमरचितं. 49, Not found in M -502, N sit for sek विमान् kor विमान EN युधि योधान् for सुधयोक्षत् SI,N. अर्षयतेब tor अर्पयतीव 32aM वर्मा tor वर्मा Nye for te DM T for 24 53, M omits