पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः सर्गः रुक्ममुष्टिरुचिरूषितकोषा व्यद्युतन्नसिलता गललम्बा । लोहकङ्कटवतां सुभटानामुद्मटाभ्रनिभृता इव शम्पाः ।। ७॥ श्यामलाभिरचलत्पुलकामिः पण्डिताभिरिव मोहनकृत्ये । प्रेयसीभिरिव बभ्रुरशून्यं पार्श्वभाहवभटाः छुरिकाभिः ॥ ८॥ संवृतानि वदनानि शिरस्रैर्भास्वराण्यपि भृशं सुभटानाम् । जातजिग्रसिपुराहुमुखाभामिन्नभानुभयदं वपुरापुः ।।९।। सङ्घसङ्घटनया घटिताङ्गा भूभुजो बभुरिमा भृशमन्ने। घोरघोषिण इवोधनौधाः कृष्णघोषारूषितस्य मघोनः ॥१०॥ तेजनानुभवभिन्नकटाग्रा कालिकेव गजता गुरुगर्जा । प्राङ्गणे प्रमथरेतरधारा * सारधारि मदवारि ववर्ष ।। ११ ॥ सद्गुणैः कृतयुगक्षयरक्षैश्चक्रवत्यविधुराणि वहन्ती। विष्णुमूर्तिरित्र सादितमोहा शिश्रिये क्षियमथो स्थकढ्या ॥ १२ ॥ लक्षशो बहुललक्षितलाक्षाक्षालितप्रचुरचामरचक्राः सप्तयः पथि समं समपप्तन्नूर्मयोऽर्णव इवौर्वशिखाङ्काः ।। १३ ॥ उत्फलद्भिरविभर्मयदत्वं काञ्चनीयकवचाञ्चितकायैः । पत्तिभिः पृथुबलैः स बलौघः सस्फुलिङ्ग इव खाण्डववह्निः ॥ १४ ॥ स्यन्दनं द्रढिमवत्पृथुतुङ्गभूरिसत्त्वभरणादविकम्पा । अध्यतिष्ठदथ कप्फिणमूर्तिः केलिकोलहरिपोत्रमिबोर्वीम् ॥ १५ ॥ 7b,M प्राथुलन् for व्यतन् oakt: for : BaM अवलत् for अन्चलत e,M 374 for 9a,M संभूतानि for संवृतानि 100M. नाभा: for पौधाः flaM वृतार्चा tore वर्ष 1253M षड्युगैः 107 सद्गुणैः d,M कदया N कुड्याः, may be कच्चा 13 Not found in M 14 The order in M is ba

b;M उत्तत्पतद्भिः for उल्फलाद्भिः

158 N IT for , suggested CM करण foz कामिण