पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्यां नुदन्निव पिबन्निव काष्ठाः क्ष्मां स्वन्निव धयन्निव धाम। प्रास्थिताथ प्रदधान इवाहः सप्रताप इव विग्रहवाही ॥१६॥ दीर्घदर्शिनमिवार्यमुपाया वासरा इव सुतेजसमर्कम् । तं मनोरथमिवानधमर्थाः साधनैरनुययुः क्षितिपालाः॥१७॥ पीवहृष्टहरिहेषितघोषैः पीलुपीत्करणपल्लवितौघम् । चक्रिचक्ररवमेदुररूपं तूर्वज रसितमारुणदाशाः ॥१८॥ उत्खनद्भिरनुस्वं निखिलानां स्वगिनां सुरवसखैः मुखरागैः । प्रेङ्क्षितर्मुखरितं शतसङ्ख्यैः सङ्ख्शङ्खरसितैः स्वरशब्दैः ॥ १९ ॥ मेघमत्तकारिकर्णकबाटैः केतुभिः समरसिन्धुतरङ्गैः । तद्वियद्विटपिपीनपलाशैराजिभूव्यजनकैर्बलमाभात् ॥२०॥ संभृताङ्गरभसानुभवाभिर्भूपतेरथ घनप्रचयाभिः । अप्ग्रतश्च परपक्षचभूमिः पप्रथे विषमदृष्टिभिरुच्चैः ।।२१।। कृत्स्नलोकहठसंह्रतिहेतोर्व्यापिनी समघघटिष्ट रिपूणाम् । सेनया घरणिध्वजिनी सा द्यौर्द्रुतं प्रलयकालिकवेव ॥ २२ ॥ शशमुख्यमुखदुन्दुभिनादो वर्णवादगुरुरद्भूतशंसी। मानमन्युमदनानि मिथोऽन्तर्भूर्भुजां सभमपप्रथदर्थ्यः ।। २३ ।। तल्पलासितमहाकरबालं कम्पमानकटकाग्रभुजं सा । वाहिनी रतभिवाहवमाप्तं प्रत्यनीकमवगृह्य निरूहे ॥२४॥ 360, fox: TEN दर्शन र दशिन OMनोरथ मनोरथ 18. शीव पीकरण. 2,1 for 190,M DE tor skai Mp for शव a, खनख: For स्वरराष्दैः 200, 31 * Los AT साल पीन am mittit for the above 210 No: fox fangefa: 22.23, Not found in M 246पमान कम्पमान