पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः सर्गः दर्शकानुशयदर्शनदर्शे पिण्डपातनमयारिपितृणाम् । कप्फिणो घटयतुं रःदीक्षा क्रोधजे पुलकवारिणि सस्रौ ॥१॥ तस्य तत्प्रकृतिचक्रमगतिक्रोधदोषदृढकोपमुदूहे । कल्पभङ्गदिनसर्गविहस्तद्वादशार्ककिरणक्षुभिताभाम् ॥२॥ मन्थभिन्नजलधिध्वनिधीरो दुर्धरः समरदुन्दुभिनादः । शूरसङ्गमभिव द्युवधूनां वक्तुमम्बरमथोदवरिष्ट ॥ ३ ॥ अद्रिनिर्दलननिर्दयवज्रस्फूर्जथुप्रसरपीवरपूरी। दुन्दुभिध्वनिभरैर्भृतमन्तःस्फोटनिम्नमिव दिक्कुलमासीत् ॥ ४॥ स्वामिसत्कृतिलताङ्कुरकलृप्ति कोपकल्पविलयानलवायुम् । सत्त्वकाञ्चनकपोपलपट्टं दंशनादरमधत्त नृपौघः ।।५।। वर्मभिर्वसितमूर्ध्वमुदस्तैर्भूभुजः प्रतिभयं वपुरुहुः । मेदुरैर्नववलाहकजालैर्लङ्घ्यमानशिखरा इव शैलाः ॥६॥ ie भपि चतुर for बटचितु AN ART for पदोन Pal for ार्मा $ Readings In M are very corrupt OM 9 for d. Mat for a 6.Not found in M