पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पोडशः सर्गः -- अस्ति तत् प्रसवालानां रूक्षां क्लिष्टोष्टपल्लवाम् । प्रियप्रवासग्रीष्मोष्मा कांचित् चक्रे वधूलताम् ॥ १२६ ।। ते सा--सरागं च सोमसां....युद्भटाः। पुरन्ध्रीदृक्पातै - ध्याने स्तुसुराङ्गना ।। १२७ ।। ततः श्रोत्रातिथीभूततूर्योटभटारवाः । ओकोभ्यो निरस्तोपादुपायेभ्य इवोदया* ॥ १२४ ।। शूराग्र्यश्रेणिगर्जद्गजरथतुरगस्पन्दनस्यन्दिदर्पं सर्पत्संपत्तिपत्तिध्वनितघरधनुःसायकासारसारम् । दीप्रप्रासग्रहासानलसलसदसिप्रेद्धवृद्धध्वजर्द्धि- प्रेडखन्निस्सङ्ख्यसबस्वनभवनिभुजां सैन्यमाविर्बभूव ॥ १२९ ॥ क्षुन्दन्तः क्ष्मां केतुमि खं लिखन्तः क्षिण्वन्तोऽक्षीण्याक्षिपन्तः क्षितीन्द्रान् । कल्पदंशाम्रोद्भट्टाः सैन्यसार्था- श्चेलुयुद्धायाध्वना ते शिवेन ॥ १३०॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये सैन्यप्रस्थानो नाम चतुर्दशः सर्गः। 128a,M. भिवाभुत for अतिथीभूत-