पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः स्वयंवरस्रजेन त्वां श्लिष्टमौलिं तदाज्ञया । यावदायुर्वृणोतु श्रीरनुरक्ता वधूरिव ॥ १७ ॥ स्पष्टसामसगर्वार्थमित्थमूचिषि दर्शके । क्रूरामर्षार्जितव्याज व्याजहार प्रसेनजित् ।। ४८ ॥ क्वायमार्य इवाकारः क्व चेदं पटु दुर्वचः । अहो विवृतसार्ङ्कया दुर्मेयाश्चित्तवृत्तयः ।। ४९ ।। अपि यत्नप्रमृष्टय मलमन्तरनुज्झतः । ताम्रस्येव खलोक्तस श्यामिका लक्ष्यते पुरः॥५०॥ अमङ्गलानां माङ्गल्या कौशिकानाभिवासताम् । तेजो दधाना सूरश्रीर्दृष्टिरोगाय जायते ॥ ५१ ॥ हिंसारतिषु रौद्रेषु मलिनेष्वन्यबाधनम् । ईर्ष्यामलं खलेष्वास्ते विषमाशीविषेष्विव ।। ५२ ।। ह्लादिन्यपि प्रसन्नापि तवाहंकारतेजनात् । मूर्तिर्जाता जलस्येव वह्नितप्तस्य दाहिका ॥ ५३॥ के यूयं येषु चायान्ति प्रभावमिमं जनाः। कूपमण्डूककल्पो वा विन्ते नान्यप्रभां खला ।। ५४ ॥ जिनोक्तियुक्त्या कुणप- परस्वीकृतौ वयम् । युष्माभिरविवेकात्तच्छक्तितौच्छर्य समर्थितम् ॥ ५५ ॥ अमुष्याकाण्डभूपीठाग्रासगर्धादुदञ्चितः । वेलावलयसैन्याब्धिर्बुद्धोक्तिस्तम्भितोद्यभः ॥५६॥ 470, Mife for qui 49d,N दुर्शयाः for दुर्मेयाः 510M K for at a. रोषाय for रोगाय M कल्पत for जायते 52h,M अल्पमत्ववम् for अत्यबाधनम्

53 Not found in V.

54a,M इयान्यातु for चायान्ति dN अन्व- for अपि 55 Not found in M 56ab,M अमुष्याकष्टभूयिष्ठभासमदुदलितः