पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः सर्गः १०३ शैलेष्वर्कोपलतलललद्वलितल्पस्थलेषु स्थित्वा स्थित्वा तत इव ततं संगतैः लोपदोषम् । आश्वासाय स्फुटमिव शनैः शीतले पद्मखण्डे संप्रत्येतैरवतरविधिः साध्यतै सूर्यपादैः ॥ ३६॥ आभृद्गन्तस्तम इव सरस्सीम्नि सम्भूय पङ्कं तारासार्थरिव प्रतिभुवा फेनकैः श्लिष्टपादाः भान्त्यादष्टस्फुटविसलताचुञ्चुभिश्चञ्चुचक्रै श्चक्रा बन्दीकृतविरहकृञ्चन्द्रलेखा इवैते ।। ३७ ॥ वृत्ते पत्युः प्रवसनाविधौ रात्रिराजः कलत्रं क्लान्तक्लान्तामभिकुमुदिनीं मन्थरं तस्थिवांसः। तत्किञ्चल्कप्रसरधवला बिभ्रतीह द्विरेफा- श्चिन्ताजिह्यस्थितपलितवत्कञ्चुकिच्छायमेते ॥ ३८॥ स्वच्छायातर्जितेन्दुद्युति निखिलजनानन्दसंधानबन्धु लक्ष्मीसारं शिरःसु स्थितमवनिभृतामुह्यमानं समूहैः । उत्खाताशेषदोषं सह तव यशसा लब्धदिश्चक्रचर्य स्ताद्भास्वन्मण्डलायस्फुरितकृतमदः सुप्रभातं सुखाय ॥ ३९॥ इति शिरगुपकर्ण्य मागधीयां श्लथशयनः सुहृदो गृहेऽभिरत्य । स्वपुरमथ शिवं प्रतीपमेत्य क्षितिपतिरास्त तदा कृतप्रतीक्षः ॥४०॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये प्रभातवर्णनो नाम पञ्चदशः सर्गः 36;M omits; found in N. 37,M omits; forind in N. 38,M amits found in N. a,M स्वच्छः प्रात: tor स्वच्छायात Mनं.दाज !:संधान -400,Natथ colophon M for a