पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः सर्गः- अङ्गे स्त्रीमिः प्रियपरिमलाशङ्कया श्लाघितश्री: किञ्जल्काशाश्रयिभिरलिभिः संघशः संगतौषः । शीलबीचैः स्थितमधुधिया रुक्मपारीषु दृष्टः कल्यं कालीयककपिलिमाभ्येति बालातपोऽयम् ।। ३१ ॥ तेजोराशौ भुवनजलधेः प्लाविताशातटान्तं भानौ कुम्भोद्भव इव पिबत्यन्धकारोत्कराम्भः । सद्यौ माद्यन्मकरकमठस्थूलमत्स्या इवैते. यान्त्यन्तःस्थाः कुलशिखरिणो दृष्टिवर्त्म क्रमेण ॥३२॥ ध्वान्तं धाम्नाधवितुभवितुं लोकमालोकलक्ष्म्या प्राप्तस्याहर्वहति शिरसा भास्करस्त्यैष पादान् । प्रापस्तुङ्गप्रकृतिमिरिह लापनीयोधमेन्यः सत्कारार्थव्यतिकरवि व्यज्यते गौरव हि ॥ ३३ ॥ प्रत्यपादप्रकटकटकिन्यासपूर्वव्युदस्त- प्राज्यप्राञ्चच्चरणनटनोत्तानितामन्दतुन्दाः आरोहन्ति श्लथदलचलचामरैः कन्धराग्रैः फेनच्छायाच्छुरितहरितो हारिदश्वाः खमश्वाः ॥ ३४ ॥ सन्ध्याध्यानप्रगुणितजपैर्मवादिप्रधान- र्दृष्टामृष्टे गगनमुक्कुरे सूत्रकृत्यावतारम् । नष्टानष्टान् झगिति जगतो लम्भयन्ती पदार्था- नेषा तोषं दिशतु मनसः पूषमूर्तिः प्रसन्ना।। ३५ 318 M T for 2 a, व्यक्ति, skm. hss सुष्टि for दृष्टि MM for ***; ,M for 33, Monits; found in N झालीयक: $4a;M w for sure. 38 No found in M quoted in Skm. 1, 113; N 47: 350, Ms for a reas M. for अन्तस्था: N कुलशिखरिणो Skm. कुल शिखरिणी a,M. विंशति for दिशतु