पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गोपीहस्तैः स्तनमुखरसश्लेषितच्यावितास्या- स्तर्षादूधःस्नुतिरुतिमयोत्कर्णमाकर्णयन्तः गोमिलींढाजठरककुदः संप्रतीक्षन्त एते घोणास्वादोल्लसितरसनास्तर्णका दोहनिष्ठाम् ॥ २६ ॥ नेत्राष्टिव्यतिकरवलद्दण्डदष्टाङ्गुलीनां चक्रोच्छोटोच्छलितकलशीशीकरार्द्राम्बराणाम् भुग्राभुग्नभ्रमितजलताभङ्गिभिन्नस्तनीनां मन्थे कुन्थद्दधनि हरते वेल्लितं बल्लवीनाम् ।। २७ ।। हीनाङ्गानामपि हि नियताऽऽसेविनां नूनमादौ व्यञ्जन्त्येव श्रियमलघवः स्वामुपेक्ष्यापि लक्ष्मीम् । नीतः पूष्णा यदयमुदयं स्वोदयात्पूर्वमेव प्राप्तस्तेजोभुवनभवनापूरि दूरादनूरूः ॥२८॥ यावद्यावल्ललितरचनाचारु चङ्कम्यतेऽसौ सीम्नि व्योम्नः शितिभणिशिलाकुट्टिमामे दिनश्रीः तावत्तावतरुणतपनाऽऽताम्रिताभ्रच्छलेन द्रागार्द्रार्द्र पतति चरणालतकच्छायमस्याः ॥ २९ ।। अम्भोजेषु श्लथदलविशन्नैशतोयांशशीत- स्पर्शभ्रश्यत्स्वपनमलिनां हुंकृतं श्रूयतेऽन्तः प्रेङ्क्षत्पादप्रसरणविधि प्रस्तुवत्याः प्रबोधं मञ्जीराणामिव रणरुणाशिञ्जितं मञ्जु लक्ष्म्याः ॥३०॥ -269.M सुख' for मुख; लेपितराततास्याः for ON उदयत् for उदयं ऋषितच्यावितात्याः d, प्रासात् 'for प्राम: N.. भुक्नरचतामरि SN for : for भुवनभवनापूरि 278M चलत् for वरूद् 290, M for 2016, it may be B,M. वकांक्षेपो for चक्राच्छोटो, MY चेट d,M पार for द्राक्, पतित for प्रति cd, missiag in M 306,N i toza Bab, missing in M