पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५ विषमधर्मदिनोष्मकृतक्लमं क्षणमिवोक्षितुमर्यममण्डलम् । भुपि निपत्य जवाज्जगृहुर्जलं रविकरा विकरालतरत्विषः ॥ १९ ।। चलदलोद्वलितामलमल्लिकापरिमलाकुलितातिकुलाकुलः । अकृत सैन्यभिवोर्जयितुं मरुन् मलयजालयजालकलालनाम् ॥ २० ॥ बलपरिग्रहपूर्णमनोरथा न गणयन्ति हि कामपि दुःस्थितिम् । यदवहन् सुदृशो न शुचौ क्लमं प्रियसहायसहावसमागमाः ॥ २१ ॥ रविरुचिज्वलितं परिसर्पतोश्चरणयोर्मणिकुट्टिममङ्गणम् । किणकिणैः सुदृशोऽरुणताऽभवत् स्नापितयापितयावकयोरपि ॥ २२ ॥ दिवसमानसमानमितक्षपो मुखरभानुरभानुगखेटकः । रविरुचा तरुचातकमत्यगे शुचिरभूदरभूदवकृच्च सः* ॥ २३ ॥ विदधदम्बुभुचः पथिकाङ्गनाविनिहितान्तकपाशमयंकराच । प्यधित शैलमखण्डशिखण्डिनीकुलमुदेऽलमुदेत्य घनागमः ॥२४॥ गुरुनिदाघजघोरघनातपक्लमजुषां ककुभामतिशीतला । घनपटी परिरभ्य जलार्द्रिका समतताऽमततापतिरस्क्रियाम् ॥ २५ ॥ वहति केकिनटे रुचिरं चिर दलितचन्द्रकमण्डलताण्डवम् ।। स्फुटमिवाम्बुमुचां मुमुचे ततिर्जवनिकाऽवनिकान्तिकृता तता ॥२६॥ प्रियतमादभविष्यत चेत् पृथक् तदचिरादमरिष्यत निश्चितम् । घनघनोर्जितगर्जितसंभ्रमा ममदिरेमदिरेक्षणया क्षणे* ॥ २७ ॥ ध्रुवमिवाशु निपीय सहाम्बुना निबिडङम्बरमम्बुधिगर्जितम् । विदधतः प्रथिमानमुदारदिग्व्रजगुरुं जगुरुन्नतमम्बुदाः ।। २८ ॥ प्रियकपिङ्गरुचो हरिगोपिका श्रुतिमधुर्विधुराध्वगसंहतेः । स्फुटितचित्रभुवो भुवि कर्दमोद्गमसृजामसृजामिव विन्दवः ।। २९ ॥ 208,M8 वच्तिा for इलिता 21,M3 omits. 240M3 for वितत व्यथित 250,MS bas घनपर्य है आपद्रिका d. Me for ia M 280, Readings in M are very enriqpk. those in Ms are given.