पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः सर्गः गुणमयोऽपि सदोष इव क्वचिद् भवति यत्कमलाकरसारसाः समुदयेऽम्युमुचामभवन् जगतक्लमनुदामनुदारमनोमुदः ॥३०॥ अचलशृङ्गजुषस्तडितो दधुस्तरलिता रसना इव ये धनाः। उडुकदम्बककोकनदे नभःसरसि तैरसितैर्महिषायितम् ॥ ३१ ॥ कुटजकुङ्मलकोमलमालतीमलिनसान्द्रशिलीन्ध्रसुगन्धिना । अधिजगे मरुताध्वगमण्डलीगमरुधामरुधास्य वरवधूरवधूय यदास्यते परमहो महती बत्त मूढता । जलधरैरिति रम्यबकावलीदशनकैः शनकैर्जहसे जनः ॥ ३३ ॥ स्फुटमिवाम्बुवारिपिपासिता परमपामुपदंशविधित्सया। ध्वनिभिरुद्धतमध्वगजीवितं विशकुलाश कुलायवतां ततिः ॥ ३४॥ मृतिमुपैषि पुरा रुपमेषि चेद् दिवमिवाभिहिता कृततर्जनम् । स्तनवती स्तनता स्तनयित्नुना पदमसादमसावकरोत्प्रिये ॥३५॥ नवकदम्बकदम्बकसन्ततप्रसवनीयवनीयकषट्पदः । अकृत तोयततो यशसे नगो भुवि भुजङ्गभुजङ्गलितापदम् ।। ३६ ॥ स्फुटतया भुवि ब्रिभ्रति यत्र ते हलधराङ्गरूचं कुमुदाकराः । स समुदैत् क्लमसंगलितक्वणत्कतिपयातिपया जलदात्ययः ॥ ३७॥ स्थगयितुं समवाहि न मण्डलं दिनपतेर्जलदैर्जलकालवत् । क महतां सुचिरं क्रियते द्युतिर्विकलिता कलितापकरैः खलैः ॥ ३८।। भुवि ववे पवनैर्वनडम्बरग्लपितदिक्तरुणीश्वसितोपमैः । कमलिनीमकरन्दसमुहासत्सुरमिकैरभिकैरवकाननम् ।। ३९ ।। शरदृतौ विकटांसतदाटवी फुटसटास्फुटसुन्दरता हरेः । क्षितितलं परिपाकसमुच्चयलत्कलमचूलभचूचुरदुच्चकैः ॥ ४० ॥ TIMS अतुलनुयजुषः for अचलङलएः -B,M वतकरुणा for दिक्तरुणी 32-34, M3 omits d is not clear in M. 403, M3 E for Franz 82. M is not clear in a for the lacuna. B.MO तट । सदा STENS सिविता OM3. समुल्लसत् for समुच्चक्षत USAHAT अतिवनी ( भुवि को PATAN