पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः सर्गः । द्विजगणः समुपेत्त्व वनस्थली परिचचार समुज्ज्वलकिंशुकाः सदहना मधुना मकरध्वजाऽध्वरचिता रचिता इव वेदिकाः॥८॥ समुदिते सुरभौ पथिकाः पथि स्थिरधृति व्यतिचुक्षुभिरे क्षणात् । शसभृतीय समीयुषि सिन्धवो वितिमिरे तिमिरेचितवीचयः ॥९॥ वकुलमाकुलितालिपटं मधावधिशिरःस्तबकेन जनोऽत्यवैत् । ध्वजमिवात्मभुवो भुवि भासुरं समकरं मकरन्दविलासिना ॥१०॥ जगति यामतनोर्जयघोषणां जगदुरन्यभृतो व्यपदेशवः । सरति सौरभसाक्षिणि दक्षिणे मरूति सारुतिसारमवर्णयत् ॥ ११ ॥ विरचितं दधती विकरालतां मकरकेतुकिरातसमीरिता। क्व मधुमासि निराकृतकामिनीजनशशा न शशाक शराशनिः ॥ १२ ॥ मधुरमाधवरञ्जितमञ्जरीकृतपरिष्कृति केसरकाननम् । सुतलतामकरन्दकणच्छटासिकतलं कति लङ्घयितुं क्षमाः ॥ १३ ॥ अतनुकेतनयष्टिरनुच्चक्रैः प्रविकचा सहकारतरोर्लता । क्षितिमवक्षतिमिर्नवकेशरैरलिपताडलिपताकिकयोज्ज्वला ॥ १४॥ प्रसवशालिविषालिवाकुला *रतिवशा च रसादपराङ्मुखी । ऋतुवरेऽनवरे नवमालिका विगतमानतमा नतिमागता ॥१५॥ शुचिसमृद्धिरुदञ्चितमल्लिका प्रहसितं मुखमादधती गिरेः । अभितरन्तु वराङ्कभुवि द्युतिं पुलकजालकजातनुधर्ममुक् ॥ १६ ॥ रतिगृहे समदस्मरकुञ्जरश्रवणतालविलासमुपेयुषी । द्युतिमधत्त जवानिलजीवितक्लमितभव्यजनव्यजनावली ॥ १७ ॥ तपति तीव्रतरं तरणौ तथा व्यधित चन्द्रकचक्रमसौ ततम् । नहि यथा परितापकरी रवेः करकलापि कलापिनमाविशत् ॥ १८ ॥ 11.M3 मारमदर्शयत for सारमवर्णय n M. Ad मारति for सारुति 196M3. अविरत for जिरचित CM माल for मालिः a,M, शराशन: शशिनि 15d:M साना for मागता 16,17, Not found in M3. 181,M आविशेत र आविशत