पृष्ठम्:कपीनामुपवासः.pdf/9

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
कपीनामुपवासः ।


अथोत्थितः कश्चिदलुप्तधैर्यः
कपिः कपीन्द्रान् कथयाम्बभूव ।
आरुह्य वृक्षं यदि संविशेम
का नः क्षतिस्तत्र भविष्यतीति ॥ २४ ।।


व्रतस्य हानिर्नहि काचिदस्ति
तत्रेत्युरीकृत्य तदप्यमीद्राक् ।
आरुह्य वृक्षं विततासु तस्थुः
शाखासु तस्य व्रतिनः कपीन्द्राः ॥ २५ ॥


तत्रैकतो जोषमवास्थितानां
निर्बन्धजातद्विगुणश्रमाणाम्।
अभक्षणध्याननिरन्तराणां
क्षणः क्षणोऽदृश्यत कल्पदीर्घः ।। २६ ।।


वातेरिताभ्यो दुमशाखिकाभ्यः
सशब्दपातीनि रसोल्बणानि ।
फलानि दृश्यानि निरीक्ष्य निर्य-
द्दन्तोदकानां क्षुभितं मनोऽभूत् ॥ २७॥