पृष्ठम्:कपीनामुपवासः.pdf/10

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
कपीनामुपवासः


फलानुपातिस्वमनोरथेषु
ह्रीयन्तृणान्मौनमभञ्जयत्सु । ।
सर्वेषु कश्चित् प्रतिलभ्य धैर्यं
सर्वाशयं स्वाशयवज्जगाद ।। २८ ॥


प्रकल्पिता सर्वविदा विधात्रा
कपोलयोरस्ति हि भस्त्रिका नः ।
तां पूरयेमाद्य फलैरदुष्टै-
र्नास्तां फलान्वेषणसङ्कटं श्वः ।। २९ ।।


तथेत्यथोत्प्लुत्य हरिप्रवीराः
शाखोपशाखासु परिभ्रमन्तः ।
फलैरशुष्कै: परिपाकरम्यै-
रपूरयन्नाननकन्दराणि॥ ३० ॥


ततः परं यत् करणीयमत्र
न किञ्चिदन्योन्यनिवेद्यमासीत् ।
तस्माच्चरन्तः कपयो यथेच्छं
जह्रुर्लिखन्तीं किल लेखनीं नः ॥ ३५ ।