पृष्ठम्:कपीनामुपवासः.pdf/8

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
कपीनामुपवासः


इत्येवमुक्तं स्वगुणानुरूपं
कीशेन तेन प्रतिमोदमानाः ।
स्थिरासनक्लेशविनाशतोषात्
कीशाः परे तुल्यमिति प्रणेदुः ॥ २० ॥


तथाऽस्तु को दोष इह स्थिताश्चेद्-
व्रतोपवासश्रमपीडिताङ्गाः ।
वृक्षान् प्रति प्रातरितः प्रयातुं
प्रायेण शक्ता न वयं भवेम ॥ २१ ।।


इत्थं विनिश्चित्य तटात्तटिन्याः
स्वच्छन्दमुत्प्लुत्य विचेष्टमानाः ।
आसाद्य जम्बूद्रुममूलदेश-
माबध्य पङ्क्तिं हरयो निषेदुः ॥ २२ ॥


तथा स्थितास्ते क्षणिकानुबद्धै-
रुद्वीक्षणैर्विष्वगवक्षणैश्च ।
कण्डूयनैश्शीघ्रतमैश्च कांश्चित्
क्षणान् कथञ्चित् क्षपयांबभूवुः ।। २३ ।।