पृष्ठम्:कपीनामुपवासः.pdf/7

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
कपीनामुपवासः ।


अथ प्रभाते किल जागारित्वा
नदीजलस्नानपवित्रताङ्गाः ।
निधाय रामं हृदि तेऽभिरामं
सङ्कल्पयामासुरुपोषणाय । १६ ।


अथ क्षणार्धं निभृतं स्थितानां
परस्परप्रेक्षणतत्पराणाम् ।
हृदीव गात्रेऽपि बभूव लौल्यं
प्रभुः स्वभावं व्यतिवर्तितुं कः ॥ १७ |


विधाय जृम्भां व्यवधूय हस्तं
प्रसार्य पादं परिवर्त्य गात्रम् ।
आचुंब्य पुच्न्छाग्रमसोढकण्डू-
रन्ते कपिः कोऽपि विभेद मौनम् ॥ १८ ।।


असंशयं सम्प्रति पालनीयं
व्रतं महापुण्यमिदं महान्तः ।
तथाऽपि जम्बूद्रुममूलभाजां
श्वः पारणा नः मुकरेति भाति ।। १९ |