सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
[आदितस्तरङ्गः
कथासरित्सागरः

तेनाहि रिपुमायान्तं मत्वा जीमूतवाहनः। परानुकम्पी तां वध्यशिलामध्यारुरोह सः ॥ २२२

क्षणाच्चात्र निपत्यैव महासत्त्वं जहर तम् । आहत्य चक्षुषा गरुडः स्वच्छायाच्छादिताम्बरः ॥ २२३

परिस्रवदसृग्धारं च्युतोत्खातशिखामणिम्। नीत्वा भक्षयेतुं चैनगरेभे शिखरे गिरेः ॥ २२४

तकाठं पुष्पवृष्टिश्च निपपात नभस्तलात् । तद्दर्शनाच्च किं न्वेतदिति ताक्ष्यं विसिस्मिये ॥ २२५

तावत्स शङ्कचूडोऽत्र नत्वा गोकर्णमागतः। ददर्श रुधिरासारसिक्तं वध्यशिलातलम् ॥ २२६

हा धिङर्थं तेनात्मा दत्तो नूनं महामना । तत्कुत्र नीतस्तार्येण क्षणेऽस्मिन्स भविष्यति ॥ २२७

अन्विष्यामि द्रुतं तावत्कचित्तमवाप्नुयम् । इति साधुः स तद्रक्तधारामनुसरन्ययौ ॥ २२८

अत्रान्तरे च हृष्टं तं दृष्ट्वा जीमूतवाहनम् । गरुडो भक्षणं मुक्त्वा सविस्मयमचिन्तयत् ॥ २२९

कश्चित्किमन्य एवयं भक्ष्यमाणोऽपि यो मया । विपद्यते न तु परं धीरः प्रत्युत हृष्यति ॥ २३०

इत्यन्तर्विमृशन्तं च ताक्ष्यै तादृग्विधोऽपि सः । निजगाद निजाभीष्टसिद्धौ जीमूतवाहनः ॥ २३१

पक्षिराज ममास्येव शरीरे मांसशोणितम् । तदकस्मादतृप्तोऽपि किं निवृत्तोऽखि भक्षणात् ॥ २३२

तच्छुत्वाश्चर्यवशगस्तं स पप्रच्छ पक्षिराट् । नागः साधो न तावत्वं ब्रूहि तत्को भवानिति ॥ २३३

नाग एवास्मि भुङ्क्ष्व त्वं यथारब्धं समापय । आरक्ष्धा ह्समानैव किं धीरैस्त्यज्यते क्रिया ॥ २३४

इति यावच्च जीमूतवाहनः प्रतिवक्ति तम् । तावत्स शङ्कचूडोऽत्र प्राप्तो दूरादभाषत ॥ २३५

मा मा गरुत्मनैवैष नागो नागो ह्यहं तव। तदेनं मुञ्च कोऽयं ते जातोऽकाण्डे बत भ्रमः ॥ २३६

तच्छुत्वातीव विभ्रान्तो बभूव स खगेश्वरः। वाञ्छितासिद्धिदं च भेजे जीमूतवाहनः ॥ २३७

ततोऽन्योन्यसमालापक्रन्दद्विद्याधराधिपम्। चुलु तं भक्षितं मोहाद्गरुत्मानभ्यतप्यत ॥ २३८

अहो बत नृशंसस्य पापमापतितं मम । किं वा मुलभपापा हि भवन्त्युन्मार्गवृत्तयः ॥ २३९

आध्यस्वेष महत्वैकः परार्थप्राणदायिना। ममेति मोहैकवशं येन विश्वमधः कृतम् ॥ २४०

इति तं चिन्तयन्तं च गरुडं पापशुद्धये । वह्नि विविक्षु जीमूतवाहनोऽथ जगाद सः॥ २४१

पक्षीन्द्र किं विषण्णोऽसि सत्यं पापाद्विभेषि चेत् । तदिदानीं न भूयस्ते भक्ष्या हीमे भुजंगमाः॥ २४२

कार्यश्चानुशयस्तेषु पूर्वभुक्तेषु भोगिषु । एषोऽत्र हि प्रतीकारो वृथान्यचिन्तितं तव ॥ २४३

इत्युक्तस्तेन स प्रीतस्ताक्ष्य भूतानुकम्पिना । तथेति प्रतिपेदे तद्वाक्यं तस्य गुरोरिव ॥ २४४

ययौ चामृतमानेतुं नाकाज्जीवयितुं जवात्। क्षतानं तत्र तं चान्यानस्थिशेषानहीनपि ॥ २४५

ततश्च साक्षादागत्य देव्या सिक्तोऽमृतेन सः । जीमूतवाहनो गौणं तद्भार्याभक्तितुष्टया ॥ २४६

तेनाधिकतरोर्दूतकान्तीन्यङ्गानि जज्ञिरे । तस्य सानन्दगीर्वाणदुन्दुभिध्वनिभिः सह ॥ २४७

स्वस्थोत्थिते ततस्तस्मिन्नानीय गरुडोऽपि तत् । कृत्ने वेलातटेऽप्यत्र ववर्षामृतमम्बरात् ॥ २४८

तेन सर्वे समुत्तस्थुर्जीवन्तस्तत्र पन्नगाः। बभौ तच्च तदा भूरिभुजंगकुलसंकुलम् ॥ २४९

वेलाबनं विनिर्मुक्तवैनतेयभयं ततः । पातालमिव जीमूतवाहनालोकनागतम् ॥ २५०

ततोऽक्षयेण देहेन यशसा च विराजितम् । बुट्टाभ्यनन्दत्तं बन्धुजनो जीमूतवाहनम् ॥ २५१

ननन्द तस्य भार्या च सज्ञातिः पितरौ तथा । को न प्रहृष्येदुःखेन सुखत्वपरिबर्तना ॥ २५२

विसृष्टस्तेन च ययौ शङ्खचूडो रसातलम् । स्वच्छन्दविसृष्टं च लोकांस्त्रीनपि तद्यशः ॥ २५३

ततः प्रीतिप्रह्वामरनिकरमागत्य गरुडं प्रणेमुस्तं विद्याधरतिकलमभ्येत्य सभयाः॥ २५४

स्वदायादः सर्वे हिमगिरिसुतानुग्रहवशान्मतङ्गगाख्याद्य ये सुचिरमभजन्नस्य विकृतिम् ॥ २५५

तैरेव चाडैमनः सुकृती जीमूतवाहनः स ततः ।
मलयाचलादगच्छन्निजनिलयं तुहिनशैलतटम् ॥ २५६

तत्र पितृभ्यां सहितो मित्रावसुना च मलयवत्या च ।
धीरश्चिराय बुभुजे विद्याधरचक्रवर्ति पदम् ॥ २५७