पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः १।]
८३
नरवाहनदत्तजननलम्बुकः ४ ।

राजसंसत्प्रवेशेऽस्याः प्रावीण्यमत एव च । इति संचिन्त्य देवी तां ब्राह्मणीं पुनरब्रवीत् ॥ १०४

भार्या त्व कस्य को वा ते वृत्तान्तः कथ्यतां त्वया। तच्छुत्वा ब्राह्मणी भूयः साथ वक्तुं प्रचक्रमे ॥ १०५

मालचे देवि कोऽप्यासीदन्निदत्त इति द्विजः । निलयः श्रीसरस्वत्योः स्वयमातधनोऽर्थभिः ॥ १०६

तस्य च स्वानुरूपौ द्वावुत्पन्नौ तनयौ क्रमात् । ज्येष्ठः शंकरदुत्ताख्यो नान्न शान्तिकरोऽपरः ॥ १०७

तयोः शान्तिकरोऽकस्माद्विद्यार्थी स्वपितुगृहात् । स बाळ एव निर्गत्य गतः क्वापि यशस्विनि ॥ १०८

द्वितीयश्च स तद्धाता ज्यो मां परिणीतवान्। तनयां यज्ञदत्तस्य यज्ञार्थभूतसंपदः ॥ १०९

कालेन तस्य सद्भर्तुः सोऽग्निदत्ताभिधः पिता । वृद्धो लोकान्तरं यातो भार्ययानुगतः स्वया ॥ ११०

तीर्थाद्देशाच्च मन्द्रत धृतगर्भ विमुच्य माम् । गत्वा सरस्वतीपूरे शोकेनान्धो जहौ तनुम् ॥ १११

वृत्तान्ते कथिते चास्मिन्नेत्य तत्सहयायिभिः। स्वजनेभ्यो मया लब्धं नानुगन्तुं सगर्भया ॥ ११२

ततो मय्याद्रुशोकायामकस्मादेत्य दस्युभिः। अस्मन्निवासः सकलोऽप्यग्रहारो विलुण्ठितः ॥ ११३

तत्क्षणं तिसृभिः सार्ध ब्राह्मणीभिरहं ततः। शीलभृशभयादात्तस्वल्पवस्त्र पलायिता ॥ ११४

देशभङ्गाद्विदूरं च गत्वा देशं तदन्विता। मासमात्रं स्थितावं कृच्छूकमपजीविनी ॥ ११५

श्रुत्वा चानाथशरणं लोकाद्वत्सेश्वरं ततः । सत्राह्मणीका शीलैकपाथेयाहमिहागता ॥ ११६

आगत्यैव प्रसूतास्मि युगपत्तनयावुभौ । स्थितासु चासु तिसृषु ब्राह्मणीषु सखीष्वपि ॥ ११७

शोको विदेशो दारियं द्विगुणः प्रसवोऽप्ययम् । अहो अपावृतं द्वारमापदां मम बेधसा ॥ ११८

तदेतयोर्गतिर्नास्ति बालयोर्वर्धनाय मे । इत्यलोच्य परित्यज्य लज योषिद्विभूषणम् ॥ ११९

मया प्रविश्य वत्सेशो राजा सदसि याचितः । कः शक्तः सोदुमापन्नबालापत्यार्तिदर्शनम् ॥ १२०

तदादेशेन च प्राप्तं मया त्वच्चरणान्तिकम् । विपदश्च निवृत्ता मे द्वाराप्रतिहता इव ॥ १२१

इत्येष मम वृत्तान्तो नाम्ना पिङ्गलिकाप्यहम् । आबाल्यान्निक्रियाधूमैर्यन्मे पिङ्गलिते दृशौ ॥ १२२

स तु शान्तिकरो देवि देवरो मे विदेशगः । कुत्र तिष्ठति देशेऽसाविति नाद्यापि बुध्यते ॥ १२३

वमुक्तस्ववृत्तान्तां कुळीनेत्यवधार्य ताम् । प्रीत्यैनां ब्राह्मणीं देवी सा वितयैवमब्रवीत् ॥ १२४

ह शान्तिकरो नाम स्थितोऽस्माकं पुरोहितः । बैदेशिकः स जानेऽहं देवरस्ते भविष्यति ॥ १२५

युक्त्वा ब्राह्मणीमुकां नीत्वा रात्रिं तदैव ताम् । देवी शान्तिकरं प्रातरागय्यपृच्छदन्वयम् ॥ १२६

क्तान्वयाय तस्मै च सा संजातसुनिश्चया। इयं ते भ्रातृजायेति ब्राह्मणीं तामदर्शयत् ॥ १२७

तायां च परिज्ञप्तौ ज्ञातबन्धुक्षयोऽथ सः । ब्रह्मणीं भ्रातृजायां तां निन्ये शान्तिकरो गृहम् ॥ १२८

ननुशोच्य पितरौ भ्रातरं च यथोचितम् । आश्वासयामास स तां बालकट्टितयान्विताम् ॥ १२९

बी बासवदत्तापि तस्यास्तौ बालकौ सुतौ। पुरोहितौ स्वपुत्रस्य भाविनः पर्यकल्पयत् ॥ १३०

पुस्तयोः शान्तिसोमो नाम्ना वैश्वानरोऽपरः। कुतस्तयैव देव्या च वितीर्णबहुसंपदा ॥ १३१

न्धस्येवास्य लोकस्य फळभूमिं स्वकर्मभिः । पुरोगैर्नायमानस्य हेतुमात्रं स्वपौरुषम् ॥ १३२

त्य लब्धविभवास्तत्र सर्वेऽपि संगताः । बालकौ तौ तयोः सा च मात शान्तिकरश्च सः ॥ १३३

गच्छरसु दिवसेष्वेकदा पञ्चभिः सुतैः। सहागतामुपादाय शरावान्कुम्भकारिकम् ॥ १३४

| स्वमन्दिरे कांचिद्देव्या वासवदत्तया । सा ब्राह्मणी पिङ्गलिका जगदे पार्श्ववर्तिनी ॥ १३५

बैतस्याः सुतोऽद्यापि नैको मे सखि दृशंयताम् । पुण्यानामीदृशं पात्रमीद्दश्यापि न मादृशी ॥ १३६

पिङ्गळिकावादीद्देवि दुःखाय जायते । प्रजेयं पापभूयिष्ठा दरिद्रेष्वेव भूयसी ॥ १३७

यादृशेषु जायेत यः स कोऽप्युत्तमो भवेत् । तदलं त्वरया प्राप्स्यस्यचिरात्स्वोचितं सुतम् ॥ १३८

पिङ्गलिकोक्तापि सोत्सुका सुतजन्मनि । अभूद्वासवदत्ता सा तचिन्ताक्रान्तमानस ॥ १३९

ऐशाराधनप्राप्यं पुत्रं ते नारदोऽभ्यधात् । तद्देवि वरदोऽवश्यमाराध्यः स शिवोऽत्र नः ॥ १४०

क्ता वत्सराजेन तत्कालं चागतेन सा। देवी लब्धाशयेनाशु चकार व्रतनिश्चयम् ॥ १४१

मात्तत्रतायां तु स राजापि समङ्गिकः । सराष्ट्रश्चषि विद्धे शंकराराधनत्रतम् ॥ १४२