सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
[ आदितस्तरङ्गः २१
कथासरित्सागरः ।

तत्राह राजपुत्रं तं माता दुःखितमनसा । देवोऽस्ति चक्रवर्ती नः प्रभुः पूर्वदिगीश्वरः ॥ ६५

तत्पार्श्व व्रज राज्यं ते साधयिष्यति वत्स सः । इत्युक्तः स तदा मात्रा राजपुत्रो जगाद ताम् ॥ ६६

तत्र मां निष्परिकरं गतं को बहु मंस्यते । तच्छुत्वा पुनरप्येवं सा माता तमभाषत ॥ ६७

श्वशुरस्य गृहं गत्वा त्वं हि प्राप्य ततो धनम् । कृत्वा परिकरं गच्छ निकटं चक्रवर्तिनः ॥ ६८

इति स प्रेरितो मात्रा सलज्जोऽपि नृपात्मजः । क्रमात्प्रतस्थं सायं च प्राप तच्छाशूरं गृहम् ॥ ६९

पितृहीनो बिनष्टश्रीर्वाष्पपाताभिशङ्कया । अकाले नाशकचात्र प्रवेष्टुं लज्जया निशि ॥ ७०

निकटे सत्रबारेऽथ स्थितः श्वशुरमन्दिरात् । नक्तं रञ्जवावरोहन्तीमकस्मान्नियमैक्षत ॥ ७१

क्षणाच्च भार्या स्वामेव तां रत्नद्युतिभास्वराम् । उल्कामिवाभ्रपतितां परिज्ञायाभ्यतप्यत ॥ ७२

सा तु तं धूसरमं दृष्टाष्यपरिजानती । कोऽसीत्यपृच्छत्तच्छुत्वा पान्थोऽहमिति सोऽब्रवीत् ॥ ७३

ततः सा सत्रशालान्तः प्रविवेश वणिक्सुता । अन्वगाद्राजपुत्रोऽपि स तां गुप्तमवेक्षितुम् ॥ ७४

सा चात्र पुरुषं कंचिदुपागपुरुषोऽपि ताम् । त्वं चिरेणागतासीति पादघातैरताडयत् ॥ ७५

ततः स द्विगुणीभूतरागा पापा प्रसाद्य तम् । पुरुषं तेन सहिता तत्र तस्थौ यदृच्छया ॥ ७६

तट्टा तु स सुप्रज्ञो राजपुत्रो व्यचिन्तयत्। कोपस्यायं न कालो मे साध्यमन्यद्धि वर्तते ॥ ७७

कथं च प्रसरत्वेतच्छत्रं कृपणयोर्घयोः। शत्रुयोग्यं स्त्रियामस्यामस्मिन्वा नृपशौ मम ॥ ७८

किमेतया कुवध्वा वा कृत्यमेतद्धि दुर्विधेः। मद्धेर्यालोकनक्रीडानैपुण्ये दुःखवर्षिणः ॥ ७९

अतुल्यकुलसंबन्धः सैषा किं वापराध्यति । मुक्त्वा बलिभुजं काकी कोकिले रमते कथम् ॥ ८०

इत्यालोच्य स तां भार्यामुपैक्षत सकामुकाम् । सतां गुरुजिगीपे हि चेतसि स्त्रीतृणं कियत् ॥ ८१

तत्कालं च रतावेगवशात्तस्याः किलापतत् । वणिक्सुतायाः श्रवणात्सन्मुक्ताढ्यं विभूषणम् ॥ ८२

तच्च सा न ददशैव सुरतान्ते च सत्वरा। ययौ यथागतं गेहमापृच्छयोपपातं ततः ॥ ८३

तस्मिन्नपि गते कापि हुतं प्रच्छन्नकामुके। स राजपुत्रो दृष्ट्वा तद्रत्नाभरणमग्रहीत् ॥ ८४

स्फुरद्रत्नशिखजालं धात्रा मोहतमोपहम्। हस्तदीपमिव प्रत्तं प्रणष्टश्रीगवेषणे ॥ ८५

महावं च तदालोक्य राजपुत्रः स तत्क्षणम् । निर्गत्य सिद्धकार्यः सन्कान्यकुब्जं ततो ययौ ॥ ८६

तत्र बन्धाय दत्त्वा तत्स्वर्णलक्षेण भूषणम् । क्रीत्वा हस्त्यश्वमगमन्स पार्श्व चक्रवर्तिनः ॥ ८७

तद्दत्तैश्च बलैः साकमेय हत्वा रिपून्रणे । प्राप तपैतृकं राज्यं कृती मात्राभिनन्दितः ॥ ८८

तच बन्धाद्विनिर्मोच्य भूषणं श्वशुरान्तिकम् । प्राहिणोरुप्रकटीकर्तुं रहस्यं तदशङ्कितम् ॥ ८९

सोऽपि तच्छुचुरो दृष्ट्वा स्वसुताकर्णभूषणम् । तत्तथोपागतं तस्यै संभ्रान्तः समदर्शयत् ॥ ९०

सापि पूर्वपरिभ्रष्टं चारित्रमिव वीक्ष्य तत् । बुद्धा च भर्ना प्रहितं व्याकुटैव समस्मरत् ॥ ९१

इदं मे पतितं तस्यां रात्रौ सन्नगृह्यन्तरे । यस्यां तत्र स्थितो दृष्टः स कोऽपि पथिको मया ॥ ९२

तनूनं सोऽत्र भर्ता मे शीलजिज्ञासयाययौ । मया तु स न विज्ञातस्तेनेदं प्रापि भूषणम् ॥ ९३

इत्येवं चिन्तयन्त्याश्च दुर्नयव्यक्तिविरुवम् । वणिक्सुताया हृदयं तस्याः कातरमस्फुटत् ॥ ९४

ततस्तस्या रहस्यज्ञां पृथा चेटीं स्वयुक्तितः । तत्पिता स वणिग्बुद्व तत्त्वं तत्याज तच्छुचम् ॥ ९५

राजपुत्रोऽथ संप्राप्तराज्यो लब्ध्वा गुणार्जिताम् । स चक्रवर्ततनयां भार्या भेजेऽपरां श्रियम् ॥ ९६

तदित्थं साहसे स्त्रीणां हृद्यं वनुकर्कशम् । तदेव साध्वसावेगसंपाते पुष्पपेलवम् ॥ ९७

तास्तु काश्चन सद्वंशजाता मुक्त इवाङ्गनाः । याः सुवृत्ताच्छहदया यान्ति भूषणतां भुवि ॥ ९८

हरिणीव च राजश्रीरेवं विप्लविनी सदा। वैर्यपाशेन बन्टुं च तामेके जानते धाः ॥ ९९

तस्मादापद्यपि त्याज्यं न सत्त्वं संपदेषिभिः । अयमेवात्र वृत्तान्तो ममात्र च निदर्शनम् ॥ १००

यन्मया विधुरेऽष्यसिंधारित्रं देवि रक्षितम् । युष्मद्दर्शनकल्याणप्राख्या तफलितं हि मे ॥ १०१

इति तस्या मुखाच्छुत्वा ब्राह्मण्यास्तत्क्षणं कथाम्। देवी वासवदत्ता सा सादरा समचिन्तयत् ॥ १०२

ब्राह्मणी कुलवत्येषा ध्रुवमस्या छंदारताम् । भङ्गिः स्वशीयोपक्षेपे वचःप्रौढिश्च शंसति ॥ १०३

</poem>