त्रिरात्रोपोषितौ तौ च दंपती स विभुस्ततः । प्रसादप्रकटीभूतः स्वयं स्वप्ने समदिशत् ॥ १४४
उत्तिष्ठतं स युवयोः कामांशो जनिता सुतः । नाथो विद्याधराणां यो भविता मत्प्रसादतः ॥ १४५
इति वचनमुदीर्यं चन्द्रमौलौ सपदि तिरोहिततां गते प्रबुध्य ।
अधिगतवरमाशु दंपती तौ प्रमकृत्रिममापतुः कृतार्थं ॥ १४६
उत्थाय चोषसि ततः प्रकृतीर्विधाय तत्स्वतंकीर्तनसुधारसतर्पितास्ताः।
या नरपतिश्च सबन्धुभृत्यौ बद्धोत्सचौ विदधतुर्नतपारणानि ॥ १४७
कतिपयदिवसापगमे तस्याः स्वप्ने जटाधरः पुरुषः ।
कोऽप्यथ देव्या वासवदत्तायाः फलमुपेत्य ददौ ॥ १४८
विनिवेदितस्फुटतथाविधस्यनया सह प्रमुदितस्तया समभिनन्दितो मन्त्रिभिः।
विचिन्त्य शशिमौलिना फलनिभेन दत्तं सुतं मनोरथमदूरगं गणयति स्म वत्सेश्वरः ॥ १४९
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे नरवाहनदत्तजननलम्वके प्रथमस्तरङ्गः ।
*****
द्वितीयस्तरङ्गः
अथ वासवदत्ताया वत्सेशहृदयोत्सवः । संबभूवाचिराद्भः कामांशावतरोज्वलः ॥ १
सा बमौ लोलनेत्रेण मुखेनापाण्डुकान्तिना । शशाङ्केनेव गर्भस्थकामप्रेमोपगामिना ॥ २
आसीनायाः पतिव्रहद्रतिप्रीती इवागते । रेजतुः प्रतिमे तस्या मणिपर्यङ्कपार्श्वयोः ॥ ३
भाविविद्याधराधीशगर्भसेवार्थसिष्टदः। मूर्ता विद्या इवायाताः सख्यस्तां पर्युपासत ॥ ४
विनीलपल्लवश्याममुखौ साथ पयोधरौ। सूनोर्गर्भाभिषेकाय बभार कलशाविव ॥ ५
स्वच्छस्फुरितसक्छायमणिकुट्टिमशोभिनः । सुखशय्यागता मध्ये मन्दिरस्य रराज सा ॥ ६
भावितत्तनयाक्रान्तिशझषकम्पितवरिभिः । उपेत्य सेव्यमनेव समन्ताद्रत्नराशिभिः ॥ ७
तस्या विमानमध्यस्थरत्नोदथा प्रतिमा बभौ । विद्यधुश्रीर्नभस्सा प्रणामार्थमिवागता ॥ ८
मत्रसाधनसंनद्धसाधकेन्द्रकथासु च । बभूव सा दोहदिनी प्रसङ्गोपनतासु ॥ ९
सरसारव्धसंगीता विद्याधरवराङ्गमः । स्वप्ने तामम्बरोत्सङ्गमारूढामुपतस्थिरे ॥ १०
प्रबुद्ध सेवितुं साक्षात्तदेवाभिललाष सा। नभक्रीडाविलसितं लक्ष्यभूतलकौतुकम् ॥ ११
तं ‘च दोहदमेतस्या देव्या यौगन्धरायणः । यभ्रमन्त्रेन्द्रजालादिप्रयोगैः समपूरयत् ॥ १२
चिजहर च सा तैस्तैः प्रयोगैर्गगनस्थिता । पौरनारीजनोत्पक्ष्मलोचनाश्चर्यदयिभि॥ १३
एकदा वासकस्थायास्तस्याश्च समजायत । हृदि विद्याधरोदोरकथाश्रवणकौतुकम् ॥ १४
ततस्तयार्थतो देव्या तत्र यौगन्धरायणः । तस्याः सर्वेषु श्रुण्वत्सु निजगाद् कथामिमाम् ॥ १५
अंत्यम्बिकाजनयिता नगेन्द्रोहिभवानिति । न केवलं गिरीणां यो गुरुगरीपतेरपि ॥ १६
विद्याधरनिवासे च तस्मिन्विद्याधराधिपः। उवास राजा जीमूतकेतुर्नाम महाचले ॥ १७
तस्याभूत्कल्पवृक्षश्च गृहे पितृकमागतः । नान्नान्वर्थेन विख्यातो यो मनोरथदायकः ॥ १८
कदाचिच्च स जीमूतकेतू राजाभ्युपेत्य तम् । उद्याने देवतात्मानं कल्पद्रुममयाचत ॥ १९
सर्वदा प्राप्यतेऽस्माभिस्त्वन्तः सर्वमभीप्सितम् । तदपुत्राय मे देहि देव पुत्रं गुणान्वितम् ॥ २०
ततः कल्पद्रुमोऽवादीद्राजन्नुत्पत्स्यते तव । जातिस्मरो दानवीरः सर्वभूतहितः सुतः ॥ २१
तच्छुत्वा स प्रहृष्टः सन्कल्पवृक्षी प्रणम्य तम् । गत्वा निवेद्य तद्राजा निजां देवीमनन्यत् ॥ २२
तस्याचिरादेव राज्ञः सूनुरजायत । जीमूतवाहनं तं च नाम्ना स विद्धे पिता ॥ २३
ततः सहजया साकं सर्वभूतानुकम्पया । जगाम स महासस्वो वृद्धेि जीमूतवाहनः ॥ २४
क्रमाच यौवराज्यस्थः परिचर्याप्रसादितम् । लोकानुकम्पी पितरं विजने ॥ २५
१. इयमेव कथा श्रीहर्षदेवप्रणीतनागानन्दनाटकस्य मूलभूता.