यौगन्धरायणोऽप्येतदुद्ध प्रतिपदं पथि । दूषितं तृणतोयादि प्रतियोगैरशोधयत् ॥ ८४
अपूर्वस्त्रीसमायोगं कटके निषिषेध च । अवधीद्वधकांस्तांश्च लब्ध्वा सह रुमण्वत ॥ ८५
तद्वद्वा ध्वस्तमायः सन्सैन्यपूरितदिख्खम् । वरसेश्वरं ब्रह्मदत्तो मेने दुर्जयमेव तम् ॥ ८६
संमत्रय दत्त्वा दूतं च शिरोविरचिताञ्जलिः। ततः स निकटीभूतं वत्सेशं स्वयमभ्यगात् ॥ ८७
वत्सराजोऽपि तं प्राप्तं प्रदत्तोपायनं नृपम् । प्रीत्या संमानयामास शूरा हि प्रणतिप्रियाः ॥ ८८
इत्थं तस्मिञ्जिते प्राचीं शमयन्नमयन्मृदून् । उन्मूलयंश्च कठिनानृपान्वायुरिव द्रुमान् ॥ ८९
प्राप च प्रबलः प्राच्यं चलद्वीचिविघूर्णितम् । वङ्गावजयवित्रासवेपमानमिवाम्बुधिम् ॥ ९०
तस्य वेलातटान्ते च जयस्तम्भं चकार सः । पातालाभययाच्बार्थ नागराजमिवोन्नतम् ॥ ९१
अवनम्य करे दत्ते कलिभैरप्रगैस्ततः । आरुरोह महेन्द्राद्रिं यशस्तस्य यशस्विनः ॥ ९२
महेन्द्राभिभवानीतैर्विन्ध्यकूटैरिवागतैः । गजैर्जित्वाटवीं राज्ञां स ययौ दक्षिणां दिशम् ॥ ९३
तत्र चक्रे स निःसारपाण्डुरानपगजतान् । पर्वताश्रयिणः शत्रुघ्शरत्काल इवाम्बुदान् ॥ ९४
उल्लवयमाना कावेरी तेन संमर्दकारिणा । चोलकेश्वरकीर्तिश्च कालुष्यं ययतुः समम् ॥ ९५
न परं मुरलानां स सेहे मूर्धसु नोन्नतिम् । करैराहन्यमानेषु यावत्कान्ताकुचेष्वपि ॥ ९६
यत्तस्य सप्तधा भिन्नं पपुगंदावरीपगः । मातङ्गास्तन्मदध्याजात्सप्तधैवानुचन्निव ॥ ९७
अथोत्तीर्य स वत्सेशो रेवामुज्जयिनीमगात् । प्रविवेश च तां चण्डमहासेनपुरस्कृतः ॥ ९८
स माल्यश्लथधम्मिल्लशोभाद्वैगुण्यशालिनाम् । मालवस्त्रीकटाक्षाणां ययौ चात्रैव लक्ष्यताम् ॥ ९९
तस्थौ च निद्रेतस्तत्र तथा श्वशुरसत्कृतः । विसस्मार यथाभीष्टानपि भोगान्स्वदेशजान् ॥ १००
आसीद्वासवदत्ता च पितुः पार्श्वविवर्तिनी । स्मरन्ती बालभावस्य सौख्येऽपि विमना इव ॥ १०१
राजा चण्डमहासेनस्तया तनयया यथा । तथैव पद्मवत्यापि नन्दति स्म समागतः॥ १०२
विश्रम्य च निशाः काश्चित्प्रीतो वत्सेश्वरस्ततः । अन्वितः श्वशुरैः सैन्यैः प्रययौ पश्चिमां दिशम् ॥ १०३
तस्य खङ्गलता नूनं प्रतापानलधूमिका । यच्चक्रे लादनारीणामुदश्रुकलुषा दृशः ॥ १०४
असौ मथितुमम्भोधिं मा मामुन्मूलयिष्यति । इतीव तद्रजाधूतचनोऽपत मन्द्रः ॥ १०५
सत्यं स कोऽपि तेजस्वी भास्वदादिविलक्षणः । प्रतीच्यामुदयं प्राप प्रकृष्टमपि यजयी ॥ १०६
ततः कुबेरतिलकामलकासङ्गशंसिनीम् । कैलासह ससुभगामशामभिससार सः ॥ १०७
सिन्धुराजं वशीकृत्य हरिसैन्यैरनुद्रुतः । क्षपयामास च म्लेच्छान्राघवो राक्षसानिव ॥ १०८
तुरुष्कतुरगव्राताः क्षुब्धस्याब्धेरिवोर्मयः । तद्वजेन्द्रघटा वेलावनेषु दलशो ययुः॥ १०९
गृहीतारिकरः श्रीमान्पापस्य पुरुषोत्तमः । राहोरिव स चिच्छेद पारसीकपतेः शिरः ॥ ११०
हूणहानिकृतस्तस्य मुखरीकृतदिङ्मुखा । कीर्तिद्वितीया गर्दैव विचचार हिमाचले ॥ १११
नदन्तीष्वस्य सेनासु भयस्तिभितविद्विषः । प्रतीपः शुश्रुवे नादः शैलरन्धेषु केवलम् ॥ ११२
अपच्छत्रेण शिरसा कामरूपेश्वरोऽपि तम् । नमन्विच्छायतां भेजे यत्तदा न तदद्भुतम् ॥ ११३
तद्दत्तैरन्वितो नागैः सम्राट् विववृतेऽथ सः । अद्रिभिर्जङ्गमैः शैलैः करीकृत्यार्पितैरिव ॥ ११४
एवं विजित्य वरसेशो वसुधां सपरिच्छदः। पद्मावतीपितुः प्राप पुरं मगधभूभृतः ॥ ११५
मगधेशश्च देवीभ्यां सहितेऽस्मिमुपस्थिते । सोरसवोऽभून्निशाज्योनावति चन्द्र इव स्मरः ॥ ११६
अविज्ञातस्थितामादौ पुनश्च व्यक्तमागताम् । मेने वासवदत्तां च सोऽधिकप्रश्रयास्पदम् ॥ ११७
ततो मगधभूभृता सनगरेण तेनाचितः समग्रजनमानसैरनुगतोऽनुरागागतैः ।
निगीर्णवसुधातलो बलभरेण लावाणकं जगाम विषयं निजं स किल वत्सराजो जयी ॥ ११८
इति महाकत्रिश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्बके पश्चमस्तरङ्गः।
१ पक्षे पुरुषोत्तमो विष्णुः. तत्पक्षेऽरि चक्रम्. हीतचक्रहस्त इत्यर्थः