पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७२
[ आदितस्तरङ्गः १
कथासरित्सागरः .

एतद्भवतृहं जीर्णं मद्ये न खङ रोचते । तदेहि मे निजं मूल्यं स्वगृहं स्वीकुरुष्व च ॥ ४५

इति जपंश्च स वणिक् देवदासश्च विश्रुवन्। उभौ विवादसक्तौ तौ राजानमुपजग्मतुः ॥ ४६

तत्र स्वभार्यावृत्तान्तं वक्षःस्थविषदुःसहम् । देबदासो नरेन्द्राग्रे कृत्रमुद्रिरति स्म तम् ॥ ४७

ततश्वानाय्य तद्भार्या तत्वं चान्विष्य भूपतिःत अदण्डयत्तं सर्वस्वं वणिजं पारदारिकम् ॥ ८

देवदासोऽपि कुवर्णं कृत्वा तां छिन्ननासिकाम् । अन्यां च परिणीयात्र तस्थौ लब्धनिधिः सुखम् ॥ ४९

इत्थं धर्मार्जिता लक्ष्मीरा संतत्यनपायिनी । इतरा तु जलपाततुषारकणनश्वरी ॥ ५०

अतो यतेत धर्मेण धनमर्जयितुं पुमान् । राजा तु सुतरां येन मूलं राज्यतरोर्धनम् ॥ ५१

तस्माद्यथावत्संमान्य सिद्धये मन्त्रिमण्डलम् । कुरु दिग्विजयं देव लब्धं धर्मोत्तरां श्रियम् ॥ ५२

श्वशुरद्वयबन्धूनां प्रसक्तानुप्रसक्तितः। विकुर्बते न बहवो राजानस्ते मिलन्ति च ॥ ५३

यस्त्वेष अह्मदत्तख्यो वाराणस्यां महीपतिः। नित्यं वैरी स ते तस्माद्विजयस्व तमग्रतः ॥ ५४

तस्मिञ्जिते जय प्राचीप्रक्रमेणाखिला दिशः । उच्चैः कुरुष्व वै पाण्डोर्यशश्च कुमुदोज्वलम् ॥ ५५

इत्युक्तो मझिमुख्येण तथेति विजयोद्यतः । बरसराजः प्रकृतिषु प्रयाणारम्भमादिशत् ॥ ५६

ददौ वैदेहदेशे च राज्यं गोपालकाय सः। सत्कारहेतोर्तुपतिः श्वशुर्यायानुगच्छते ॥ ५७

किं च पद्मावतीभ्रात्रे प्रायच्छन्सिहवर्मणे । संमान्य चेदिविषयं सैन्यैः सममुपेयुषे ॥ ५८

आनाययच्च स विभुर्मिळराजं पुलिन्दकम् । मित्रं बलैर्याप्तदिशं प्रावृट्कालमिवाम्बुदैः ॥ ५९

अभूच यात्रासंरम्भो राष्ट्रे तस्य महाप्रभोः। आकुलत्वं तु शत्रुणां हृदि चित्रमजायत ॥ ६०

यौगन्धरायणश्चाने चारान्वाराणसीं प्रति । प्राहिणोद्रह्मदत्तस्य राज्ञो ज्ञातुं विचेष्टितम् ॥ ६१

ततः शुभेऽहनि प्रीतो निमित्तैर्जयशंसिभिः । ब्रह्मदत्तं प्रति प्राच्यां पूर्वं वत्सेश्वरो ययौ ॥ ६२

आरूढः प्रोच्छूितच्छत्रं प्रोतुझं जयकुञ्जरम् । गिरिं प्रकुलैकतरं मृगेन्द्र इव दुर्मदः ॥ ६३

प्राप्तया सिद्धिदूयेव शरदा दत्तसंमदः। दर्शयन्यातिसुगमं मार्ग स्वल्पाम्बुनिन्नगम् ॥ ६४

पूरयन्बहुनादाभिर्वाहिनीभिभुवस्तलम् । कुर्वन्नकाण्डनिर्मेघवर्षासमयसंभ्रमम् ॥ ६५

तदा च सैन्यनिशंषप्रतिशब्दाकुलीकृताः । परस्परमिचाचख्युस्तदागमभयं दिशः ॥ ६६

चेलुश्च हेमसंनाहसंभूतार्कप्रभा हयाः । तस्य नीरजनप्रीतपावकानुगता इव ॥ ६७

विरेजुर्वारणाश्वास्य सितश्रवणचामराः । विगलद्ण्डसिन्दूरशोणदानजलाः पथि ॥ ६८

शरत्पाण्डुपयोदाङ्काः सधातुरसनिर्हराः । यात्रानुप्रेषिता भीतैरात्मजा इव भूधरैः॥ ६९

नैवैष राजा सहते परेषां प्रसृतं महः । इतीव तचमूरेणुरर्कतेजस्तिरोदधे ॥ ७०

पदात्पदं च ते देव्यौ मार्गे तमनुजग्मतुः । नृपं नयगुणाकृष्टे इव कीर्तिजयश्रियौ ॥ ७१

नंमताथ पलायध्वमित्यूचे विद्विषामिव । पवनाक्षिप्तविक्षिप्तैतस्य सेनाध्वजांशुकैः ॥ ७२

एवं ययौ स दिग्भागान्पश्यन्फुल्लसिताम्बुजान् । महीमर्दभयोद्वान्तशेषोक्षिप्तफणानिव ॥ ७३

अत्रान्तरे च ते चारा घृतकापालिकव्रताः। यौगन्धरायणादिष्टाः प्रापुर्वाराणासीं पुरीम् ॥ ७४

तेषां च कुहकाभिज्ञो ज्ञानित्वमुपदर्शयन् । शिश्रिये गुरुतामेकः शेषास्तच्छिष्यतां ययुः ॥ ७५

आचार्योऽयं त्रिकालज्ञ इति व्याजगुरुं च तम् । शिष्यास्ते ख्यापयामासुर्भिक्षाशिनमितस्ततः ॥ ७६

यदुवाचाग्निदाहादि स ज्ञानी भावि पृच्छताम् । तच्छिष्यास्तत्तथा गुप्तं चक्षुस्तेन स पप्रथे ॥ ७७

रजितं क्षुद्रसिद्ध्या च तत्रत्यं नृपवल्लभम् । स्वीचक्रे स कमप्येकं राजपुत्रमुपासकम् ॥ ७८

तन्मुखेनैव राज्ञश्च ब्रह्मदत्तस्य पृच्छतः। सोऽभूत्तत्र रहस्यशः प्राप्ते वरसेशविग्रहे ॥ ७९

अथास्य ब्रह्मदत्तस्य मन्त्री योगकरण्डकः । चकार वत्सराजस्य व्याजानागच्छतः पथि ॥ ८०

अदूषयप्रतिपथं विषादिद्रव्ययुक्तिभिः । वृक्षान्कुसुमवल्लीश्च तोयानि च तृणानि च ॥ ८१

विदधे विषकन्याश्च सैन्ये पण्यविलासिनीः । प्राहिणोत्पुरुषांश्चैव निशासु च्छद्मघातिनः ॥ ८२

तच्चं विज्ञाय स ज्ञानिलिी चारो न्यवेदयत् । यौगन्धरायणायाशु स्वसहायमुखैस्तदा ॥ ८३