पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७४
[ आदितस्तरङ्गः २० ।
कथासरित्सागरः ।

षष्ट्स्तरङः ।



ततः स सेनाविभ्रान्त्यै तत्र ळावाणके स्थितः । रहस्युवाच वत्सेशो राजा यौगन्धरायणम् ॥ १

त्वङख्या निर्जिताः सर्वे पृथिव्यां भूभृतो मया । उपायस्वीकृतास्ते च नैव व्यभिचरन्ति मे ॥ २

वाराणसीपतिस्त्वेष ब्रह्मदत्तो दुराशयः। जानेव्यभिचरत्येको विश्वासः कुटिलेषु कः॥ ३

इति वरसेश्वरेणोक्त आह यौगन्धरायणः । न राजन्ब्रह्मदत्तस्ते भूयो व्यभिचरिष्यति ॥ ४

आक्रान्तोपनतस्त्वेष भृशं संमानितस्त्वया । शुभाचारस्य कः कुर्यादशुभं हि सचेतनः ॥ ५

कुर्वीत वा यस्तस्यैव तदात्मन्यशुभं भवेत् । तथा च श्रूयतामत्र कथां ते वर्णयाम्यहम् ॥ ६

बभूव पद्मविषये पुरा कोऽपि द्विजोत्तमः । ख्यातिमानग्निदत्ताख्यो भूभृद्दत्ताप्रहरभुछ ॥ ७

तस्यैकः सोमदत्ताख्यः पुत्रो ज्यायानजायत । द्वितीयश्चाभवद्वैश्वानरदत्ताख्यया सुतः॥ ८

आद्यस्तयोर्भूमूर्वः स्वाकृतिर्मुर्विनीतकः । अ परश्चाभवद्विद्वान्विनीतोऽध्ययनप्रियः ॥ ९

कृतदारावुभौ तौ च पितर्यस्तं गते ततः। तदीयस्याप्रहारादेरर्धमर्थ विभेजतुः ॥। १०

तन्मध्यास कनीयांश्च राज्ञा संमानितोऽभवत् । ज्येष्ठस्तु सोमदत्तोऽभूच्चपलः क्षत्रकर्मकृत् ॥ ११

एकदा बद्धगोष्ठकं शूखैः सह विलोक्य तम् । सोमदत्तं पितृसुहृद्विजः कोऽप्येवमब्रवीत् ॥ १२

अग्निदत्तसुतो भूत्वा शुद्भवन्मूढं चेष्टसे । निजमेवानुजं दृष्ट्वा राजपूज्यं न लज्जसे ॥ १३

तच्छुत्वा कुपितः सोऽथ सोमदत्तः प्रधाव्य तम् । विी पादप्रहारेण जघानोज्झितगौरवः ॥ १४

तत्र विप्रः स कृत्वान्यान्साक्षिणस्तत्क्षणं द्विजान् । गत्वा पादाहतिक्रुद्धो राजानं तं व्यजिज्ञपत् ॥ १५

राजापि सोमदत्तस्य बन्धाय प्राहिणोद्भटान् । ते च निर्गत्य तन्मित्रैर्जनिरे शस्त्रपाणिभिः ॥ १६

ततो भूयो बलं प्रेष्यावष्टब्धस्यास्य भूपतिः। क्रोधान्धः सोमदत्तस्य शूलारोपणमादिशत् ॥ १७

आरोप्यमाणः शूळायामथाकस्मात्स च द्विजः । प्रक्षिप्त इव केनापि निपपात ततः क्षितौ ॥ १८

रक्षन्ति भाविकल्याणं भाग्यान्येव यतोऽस्य ते । अन्धीबभूवुर्वधकाः पुनरारोपणोद्यताः ॥ १९

तत्क्षणं श्रुतवृत्तान्तस्तुष्टो राजा कनीयसा । भ्रात्रास्य कुतविज्ञप्तिर्वधादेनममोचयत् ॥ २०

ततो मरणनिस्तीर्णः सोमदत्तो गृहैः सह । गन्तुं राजावमानेन देशान्तरमियेष सः ॥ २१

यदा च नैच्छन्गमनं समेतास्तस्य बान्धवाः । यक्तराजाप्रहारार्थं प्रतिपेदे तदा स्थितिम् ॥ २२

ततो वृत्यन्तराभवात्कथं स चकमे कृषिम् । तद्योग्यां च भुवं द्रष्टुं शुभेऽहन्यटवीं ययौ ॥ २३

तत्र लेभे शुभां भूमिं संभाव्यफलसंपदम् । तन्मध्ये च महाभोगमश्वत्थतरुमैक्षत ॥ २४

तं कल्याणघनच्छायाछन्नसूर्यांशुशीतलम् । प्रधृकालमिवालोक्य कृष्यर्थं तोषमाप सः ॥ २५

योऽधिष्ठातात्र तस्यैव भक्तोऽस्मीत्यभिधाय च । कृतप्रदक्षिणोऽश्वत्थवृक्षे तं प्रणनाम सः ॥ २६

संयोज्याथ बलीवर्दयुगं रचितमङ्गलः। कृत्वा बलिं तस्य तरोरारेभे कृषिमत्र सः ॥ २७

तस्यै तस्यैव चाधस्ताद्रुमस्य स दिवानिशम् । भोजनं तस्य चानिन्ये तत्रैव गृहिणी सदा ॥ २८

काले तत्र च पकेषु तस्य सस्येष्वशङ्कितम् । सा भूमिः परराष्ट्रेण दैवादेत्य व्यलुण्ठ्यत ॥ २९

ततः परबळे याते नष्टे सस्ये स सस्ववान् । आश्वस्य रुदतीं भार्या किंचिच्छेषं तदाददौ ॥ ३०

प्राग्वरकृतबलिस्तस्थौ तत्रैवाथ तरोरधः। निसर्गः स हि धीराणां यदापद्यधिकं दृढाः ॥ ३१

अथ चिन्ताविनिद्रस्य स्थितस्यैकाकिनो निशि । तस्याश्वत्थतरोस्तस्मादुच्चचार सरस्वती ॥ ३२

भोः सोमदत्त तुष्टोऽस्मि तव तद्च्छ भूपतेः । आदित्यप्रभसंज्ञस्य राष्ट्री श्रीकण्ठदेशगम् ॥ ३३

तत्र तस्यानवरतं द्वारदेशे महीपतेः। वदेः पठित्वा संध्याग्निहोत्रमभ्रानिदं वचः ॥ ३४

फलभूतिरहं नाम्ना विप्रः शृणुत वच्मि यत् । भद्रकृत्प्राप्नुयाद्भद्रमभद्रं चाप्यभद्रकृत् ॥ ३५

एवं वदंश्च तत्र त्वं महतीमृद्धिमाप्स्यसि । संध्याग्निहोत्रमत्रांश्च मत्त एव पठाधुना ॥ ३६

अहं च यक्ष इत्युक्त्वा स्वप्रभावेण तत्क्षणम् । तमध्याप्य च तान्मन्त्रान्वटे वाणी तिरोदधे ॥ ३७

प्रातः स सोमदत्तश्च प्रतस्थे भार्यया सह । फलभूतिरिति प्राप्य नाम यक्षकृतं कृती ॥ ३८

अतिक्रम्याटवी स्तास्ता विषसाः परिवर्तिनीः। दुर्दशा इव संप्राप श्रीकण्ठविषयं च सः ॥। ३९