पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः १।]
५१
लावणकलस्यकः ।

इत्येतन्निश्चित मतेः श्रुत्वा यौगन्धरायणात् । रुमण्वानब्रवीदेवं तर्हि यथेप निश्चयः ॥ १०४

तद्रपालकमानीय देव्या भ्रातरमाहतम् । संमखाय च समं तेन सम्यक्स विधीयताम् ॥ १०५

एवमस्त्विति वक्ति स्म ततो यैौगन्धरायणः । तत्प्रत्ययह्मण्यांश्च चक्रे कर्तव्यनिश्चयम् ॥ १०६

अन्येद्युर्मत्रिमुख्यौ तौ दूतं व्यसृजतां निजम् । गोपालकं तमानेतुमुत्कण्ठाव्यपदेशतः ॥ १०७

कार्यहेतोर्गतः पूर्वं तहूतवचनाय सः। आगाद्रोपालकस्तत्र स्वयं मूर्त इवोत्सवः॥ १०८

आगतं तदहर्जुनं स्वैरं यौगन्धरायणः । निनाय सरुमण्वकं गृहं गोपालकं निशि ॥ १०९

तत्र चारै तदुस्साहं शशंस खचिकीर्षितम् । यत्पूर्वं मश्रितं तेन सर्वे सह रूमण्वता ॥ ११०

स च राजहितैषी सन्दुःखावहमपि स्वसुः। गोपालकोऽनुमेने तत्कर्तव्यं हि सतां वचः॥ १११

सर्वमेतत्सुविहितं देवीं दग्धामवेत्य तु । प्राणांस्यजन्कथं रक्ष्यो वरसेश इति चिन्त्यताम् ॥ ११२

सदुपायादिसामग्रीसंभवे किल सत्यपि । मुख्यम हि गश्रम्य विनिपातप्रतिक्रिया ॥ ११३

इति भूयोऽपि तत्कालगुक्ते तत्र रुमण्वता । उवाचालोथिताशेषकथं यौगन्धरायणः॥ ११४

नास्यत्र चिन्ता यद्राजपुत्री गोपालकस्य सा । कनीयसी स्वसा देवी प्राणेभ्योऽभ्यधिका प्रिया ॥ ११५

एतस्य चाल्पमालोक्य शोकं वसेश्वरस्तदा । जीवेत्कदाचिदेवीति मत्वा धैर्यमवाप्स्यति ॥ ११६

अपि चोत्तमसत्वोऽयं शीघं च पभिणीयते । पञ्चायती ततो देवी दर्यते चाचिरादिति ॥ ११७

एवमेतद्विनिश्चित्य ततो यौगन्धरायणः । गोपालको रुमण्वांश्च ततो मग्नभिति व्यधुः ॥ ११८

युक्त्या लावाणकं यामः सह देव्या नृपेण च। पर्यन्तो मगधासन्नवर्ता हि विषयोऽस्ति सः ॥।११९

सुभगाबैटभूमित्वाद्राज्ञश्चासंनिधानकृत् । तत्रान्तःपुरदीर्य क्रियते यदि चिन्तितम् ॥ १२०

देवी च स्थाप्यते नीत्वा युक्त्या पद्मावतीगृहे । छन्नस्थिताय येनास्याः सैव स्याच्छीलसाक्षिणी ॥ १२१

एवं रात्रौ मिथः कृत्वा मधे सर्वेऽपरेऽहनि । यौगन्धरायणाद्यास्ते प्राविशत्राजमन्दिरम् ॥ १२२

तत्रैवमथ विज्ञप्तो वत्सराजो रुमण्वता । देव लावाणकेऽगाकं गतानां वर्तते शिवम् ॥ १२३

स चातिरम्यो विषयस्तत्र चास्त्रेटभूमयः । शोभनाः सन्ति ते राजन्नडघाश्च सुमहः ॥। १२४

बाधते तं च नैकट्यात्सर्वं स गगधेश्वरः । तत्तत्र ग्tतो हेतोश्च विनोदाय च गम्यताम ॥ १२५

एतद्ध्वा च त्सशः समं वासवदत्तथा । डंकलालसश्चक्रे गन्तुं लाघाणकं मतिम ॥ १२६

निश्चिते गमनेऽन्येद्युर्दने च परिकल्पिते । अकस्मान्नारदमुनिः कान्तिोतितदिखः ॥ १२७

अवतीर्य नभोमध्याप्रदत्तनयनोत्सवः । शशीय स्वकुलप्रीत्या तं वत्सेश्वरमभ्यगात ॥ १२८

गृहीतातिथ्यसस्कारः पारिजातमयीं स्रजम् । प्रीतः स च गुनिस्तस्मै द्वौ प्रह्माय भूभृते ॥ १२९

विद्याधराधिपं पुत्रं कामदेवांशमाप्स्यसि । इति वासवत्सां च सोऽभ्यनन्दकृतादरः ॥ १३०

ततश्चोवाच यत्सेशं स्थिते यौगन्धरायणे । रजन्यामवदनां ते इदा हुन्न स्मृतं मया। ॥ १३१

युधिष्ठिरादयोऽभूवन्पुरं ते प्रपितामहः । पञ्चाग पदी तेषामेका पनी बभूव च ॥ १३२

सा च वसवद्तत्र रूपेणाप्रतिमाभधत । ततलदोषमाशद्रथ तानेवमहम्भ्यधाम ॥ १३३

स्त्रीवैरं रक्षणीयं वस्सद्धि बीजमिझपदम् । तथाहि श्रुणुतैतां च यथां वः कथयाम्यहम् ॥ १३४

सुन्दोपसुन्दनामानौ भ्रातरौ द्वौ बभूवतुः । असुरै विक्रमाक्रान्तलोकत्रितयदुर्जयौ। ॥ १३५

तयोर्विनाशकामश्र द्वाक्षां विश्वकर्मणा । श्रद्धा निर्मापयामास दिव्यनारी तिलोत्तमाम् ॥ १३६

रूपमालोकितुं यस्याश्चतुर्दि चतुर्मुखः । बभूव किळ शर्वोऽपि कुर्वाणायाः प्रदक्षिणम् ॥ १३७

सा पायोनेरादेशापार्श्व सुन्दोपसुन्दयोः। प्रलोभनाय प्रथये कैलासोद्यान्नवर्तिनोः ॥ १३८

तौ चामुने जगृहतुस्नां नैवान्तिकागताम् । उभावप्युभयोर्बहोः सुन्दरीं काममोहिते ॥ १३९

परस्परविरोधेन हरन्तौ तां च तत्क्षणम् । प्रगृत्तसंप्रदग्वाड्रावपि क्षयमीयतुः ॥ १४०

एवं स्त्रीनाम विषयो निदानं कस्य नापदाम् । युष्माकं द्रौपदी चैफा बहूनामिह बलभा ॥ १४१

तसन्निमित्तः संघर्षः संरक्ष्यं भवतां किल । मद्वाक्यादयमेतस्याः समयश्चस्तु वः सदा ॥ १४२