पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥

महाकविश्रीसोमदेवभट्टविरचितः

'कथासरित्सागरः।'

*****

<poem> कथापीठं नाम प्रथमो लम्वकः । इदं गुरुगिरीन्द्रजामणयमन्दरान्दोलना- पुरा किल कथामृतं हरमुखाम्बुधेरुद्भतम् । प्रसह्य सरयन्ति ये विगतविन्नलब्धज्ञेयो धुरं दधाति वैखुधीं भुवि भवप्रसादेन ते ॥

प्रथमस्तरङ्ग ।

श्रयं दिशतु वः शंभोः श्यामः कण्ठो मनोभुवा । अङ्कस्थपार्वतीदृष्टिपाशैरिव विवेष्टितः ॥ १

ध्यानृतोत्सवे ताराः करेणोक्य विन्नजित् । शीकारसीकरैरन्याः कल्पयन्निव पातु वः ॥ २

|णम्य वाचं निःशेषपदार्थोद्योतदीपिकाम् । बृहत्कथायाः सारस्य संग्रहं रचयाम्यहम् ॥३

आद्यमत्र कथापीठं कथामुखमतः परम् । ततो लावानको नाम तृतीयो लम्बको भवेत् ॥ ४

रवाहनदत्तस्य जननं च ततः परम् । स्याच्चतुर्दारिकाख्यश्च ततो मदनमञ्चका ॥ ५

तो रत्नप्रभा नाम लम्बकः सप्तमो भवेत् । सूर्यप्रभाभिधानश्च लम्बक स्यादथाष्टमः ॥ ६

अलंकारवती चाथ ततः शक्तियशा भवेत् । बेळाळम्बक संज्ञश्च भवेदेकादशस्ततः ॥ ७

शाङ्कवत्यपि तथा ततः स्यान्मदिरावती। महाभिषेकानुगतस्ततः स्यात्पञ्चलम्बकः॥ ८

तः सुरतमञ्जर्यप्यथ पद्मावती भवेत् । ततो विषमशीलाख्यो लम्बकोऽष्टादशो भवेत् ॥ ९

था मूलं तथैवैतन्न मनागप्यतिक्रमः । ग्रन्थविस्तरसंक्षेपमात्रं भाषा च भिद्यते ॥१०

चित्यान्वयरक्षा च यथाशक्ति विधीयते । कथारसाविघातेन काव्यांशस्य च योजना ॥ ११

दग्ध्यख्यातिलाभाय मम नैवायमुद्यमः। किं तु नानकथाजालस्मृतिसौकर्यसिद्धये ॥ १२

नास्ति किंनरगन्धर्वविद्याधरनिषेवितः। चक्रवर्ती गिरीन्द्राणां हिमवानिति विश्रुतः ॥ १३

माहात्म्यमियतीं भूमिमारूढं यस्य भूभृताम् । यद्भवानी सुताभावं त्रिजगज्जननी गता ॥ १४

उत्तरं तस्य शिखरं कैलासाख्यो महागिरिः। योजनानां सहस्राणि बहून्याक्रम्य तिष्ठति ॥ १५

मन्दरो मथितेऽप्यब्धौ न सुधासिततां गतः । अहं वयनादिति यो हसतीव स्वकान्तिभिः ॥ १६

चराचरगुरुस्तत्र निवसत्यम्बिकाःसख । गणैर्विद्याधरैः सिद्धेः सेव्यमानो महेश्वरः ॥ १७

पेङ्गोत्तुङ्गजटाजूटगतो यस्याभृते नवः । संध्यापिशङ्गपूर्वाद्रिश्वङ्गसङ्गसुखं शशी ॥ १८

पेनान्धकासुरपतेरेकस्यार्पयता हृदि । शठं त्रिजगतोऽष्यस्य हृद्याच्चित्रमुद्धृतम् ॥ १९

चूडामाणिषु यत्पादनखामप्रतिमाङ्किताः। प्रसादप्राप्तचन्द्रार्धा इव भान्ति सुरासुराः ॥ २०

कदाचित्समुत्पन्नविस्रम्भा रहसि प्रिया । स्तुतिभिस्तोषयामास भवानीपतिमीश्वरम् ॥ २१

<poem>