पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[आदितस्तरङ्गः
कथासरित्सागरः ।

तस्याः स्तुतिवचोहृष्टस्तामङ्कमधिरोप्य सः। किं ते प्रियं करोमीति बभाषे शशिशेखरः ॥

ततः प्रोवाच गिरिजा प्रसन्नोऽसि यदि प्रभो रम्यां कांचित्कथां ब्रूहि देवाद्य मम नूतनाम् ॥

भूतं किं प्रियेशवप्युवाच भवनविषयद्वा तत्स्याज्जगति । भवती यन्न जानीयादिति ताम् ॥

ततः सा वल्लभा तस्य निर्बन्धमकरोत्प्रभोः । प्रिनप्रणयहेवाकि यतो मानवतीमनः ॥

ततस्तच्छङचुञ्चैव तप्रभावनिबन्धनाम् । तस्याः स्वल्पां कथामेवं शिवः संप्रत्यवर्णयत् ॥

अस्ति सामीक्षितुं नारायणस्तथा । महीं । पूर्वं ब्रह्म भ्रमन्तौ हिमवत्पादमूलमवापतुः ॥

ततो ददृशतुस्तत्र ज्वाळछिी महत्पुरः । तस्यान्तमीक्षितुं प्रायादेक ऊर्वमधोऽपरः ॥

अलब्धान् वरः कोऽप्यर्यतामिति तपोभिर्मं तोषयामासतुश्च तौ । आविीय मया चोक्तौ वरः कोSप्यर्थ्थसमिति ॥

तच्छुत्वैवाप्रवीद्रा पुत्रो मेऽस्तु भवानिति । अपूज्यस्तेन जातोऽसावत्यारोहेण निन्दितः ॥

ततो नारायणो देवुः स वरं मामयाचत । भूयासं तव शुश्रूषापरोऽहं भगवन्निति ॥

अतः शरीरभूतोऽसौ मम जातस्त्वदात्मना । यो हि नारायणः सा त्वं शक्तिः शक्तिमतो मम ॥
किं च मे पूर्वजाया त्वमित्युक्तवति शंकरे । कथं ते पूर्वजायाहमिति वक्ति स्म पार्वती ॥

प्रत्युवाच ततो भर्गः पुरा दक्षप्रजापतेः । देवि त्वं च तथान्याश्च बह्रयोऽजायन्त कन्यकाः ॥

स मठं भवतीं प्रादाद्धर्मादिभ्योऽपराश्च ताः । यज्ञे कदाचिदहूतास्तेन जामातरोऽखिलाः ॥

वजितस्त्वहमेवैकस्ततोऽपृच्छयत स त्वया । किं न भर्ता ममाहूतस्त्वया तातोच्यतामिति ॥

कपालमाली भर्ता ते कथमाहूयतां मखे । इत्युवच गिरं सोऽथ त्कर्णविषसूचिकाम् ॥

पापोऽयमस्माज्जा तेन किं देहेन ममामुना । इति कोपात्परित्यक्तं शरीरं तत्प्रिये त्वया ॥

स च दक्षमखस्तेन मन्युना नाशितो मया । ततो जाता माद्रेस्त्वमब्धेश्चन्द्रकळा यथा ॥

अथ स्मर तुषाराद्रिं तपोऽर्थमहमागतः । पिता स्वां च नियुक्ते स्म शुश्रूषायै ममातिथेः ॥

तारकान्तकमत्पुत्रप्राप्तये प्रहितः सुरैः। लब्धावकाशो विध्यन्मां तत्र दग्धो मनोभवः ॥

ततस्तीत्रेण तपसा क्रीतोऽहं धीरया त्त्रया । तच्च तत्संचयायैव मया सोढं तव प्रिये ॥

इत्थं में पूर्वजाया त्वं किमन्यत्कथ्यते तव। इत्युक्त्वा विरते शंभौ देवी कोपाकुळाब्रवीत् ॥

धूर्तस्त्वं न कथां हृद्यां कथयस्यर्थितोऽपि सन् । गङ्गां वहन्नमन्संध्यां विदितोऽसि न किं मम ॥

तच्छुत्वा प्रतिपेदेऽस्या विहितानुनयो हरः। कथां कथयितुं दिव्यां ततः कोपं मुमोच सा ॥

नेह कैश्चित्प्रवेष्टव्यमित्युक्तेन तथा स्वयंम् । निरुद्धे नन्दिना द्वारे हरो वक्तुं प्रचक्रमे ॥

एकान्तसुखिनो देवा मनुष्या नित्यदुःखिताः । दिव्यमानुषचेष्टा तु परभागे न हारिणी ॥

विद्याधराणां चरितमतस् वर्णयाम्यहम् । इति देव्या हरो यावद्वक्ति तावदुपागमत् ॥

प्रसादवितकः शंभोः पुष्पदन्तो गणोत्तमः । न्यषेधि च प्रवेशोऽस्य नन्दिना द्वारि तिष्ठता ॥

निष्कारणं निषेधोऽद्य ममापीति कुतूहलात् । अलक्षितो योगवशात्प्रविवेश स तत्क्षणात् ॥

प्रविष्टः श्रुतवान्सर्वं वण्र्यमानं पिनाकिना । विद्याधराणां सप्तानामपूर्व चरिताद्भुतम् ॥

श्रुत्वाथ गत्वा भार्यायै जयायै सोऽन्येवर्णयत् । को हि व्रित्तं रहस्यं वा स्त्रीषु शक्नोति गृहितुम्॥

सापि तद्विस्मयाविष्टा गत्वा गिरिसुताम्रतः। जगौ जया प्रतीहारी स्त्रीषु वाक्संयमः कुतः ॥

ततश्रुकोप गिरिजा नापूर्व वर्णितं त्वया । जानाति हि जयाप्येतदिति चेश्वरमभ्यधात् ॥

प्रणिधानाथ ज्ञात्वा जगामैवमुमापतिः । योगी भूत्वा प्रविश्येदं पुष्पदन्तस्तदाश्रुणोत् ॥

जयायै वर्णितं तेन कोऽन्यो जानाति हि प्रिये । खुरवेयानाययद्देवी पुष्पदन्तमतिक्रुधा ॥

मर्यो भवाविनीतेति विही ते शशाप सा । माल्यवन्तं च विज्ञप्तिं कुर्वाणं तद्युते गणम् ॥

निपत्य पादयोस्ताभ्यां जयया सह बोधिता । शापान्तं प्रति शर्वाणी शनैर्वचनमब्रवीत् ॥

विन्ध्याटव्यां कुबेरस्य शापात्प्राप्तः पिशाचताम् । सुप्रतीकाभिधो यक्षः काणत्याख्यया स्थितः ॥

तं दृष्ट्वा संस्मरतिं यदा तस्मै कथामिमाम्। पुष्पदन्त प्रवक्तासि तदा शापाद्विमोक्ष्यसे ॥