५९ [ आदितस्तरङ्ग तत्र पृष्ठे स्ववृत्तान्ते कन्ये ते वदतः स्म मे । वाराणस्यां सुते आवां क्षितिभृत्सार्थवाहयोः । सिद्धियुक्या हृते चावामेतयैव कपालिना । त्वत्प्रसादाच्च मुक्ते स्वः पापादस्माददूषिते । इत्युक्तवत्यौ चान्येद्युर्नात्वा वाराणसीं मया । अर्पिते ते स्वबन्धूनां तथैत्तान्तमुदीर्य तम् ॥ आगच्छंश्च ततोऽपश्यमिमं भार्यावियोगिनम् ? वणिक्पुत्रं ततोऽनेन मिलिवाहमिहागतः । कापालिकगुहालब्धेनाङ्गरागेण रञ्जितात् । क्षालितापि देहान्मे दृश्यतां वाति सौरभम् । इत्थं मृतोत्थिता प्राप्ता मया भार्येतिवादिनम् । विप्रं तं सवणिक्पुत्रं सत्कृत्य प्राहिणोनृपः ।। ततो गुणवतीचन्द्रवतीमदनसुन्दरीः। आनीयादाय च समं मिलित्वा च खसैनिकैः । आगात्स विक्रमादित्यभूभृदुजयिनीं पुरीम् । तस्यां गुणवतीचन्द्रवत्यौ च परिणीतवान् । संस्मरन्नथ तां विश्वकर्मदेवगृहेक्षिताम् । स्तम्भस्थपुत्रिकां राजा स प्रतीहारमादिशत् ।। कळिङ्गसेनात्कन्यां तां प्राप्तुं दूतो विसृज्यताम् । यस्याः प्रतिकृतिईष्टा सा मया स्तम्भपुत्रिका। इति राज्ञा समादिष्टः क्षत्तानीय तदग्रतः । प्राहिणोद्दत्तसंदेशं दूतं नाम्ना सुविग्रहम् । गत्वा कलिङ्गविषयं दृष्ट्वा तं च यथोचितम् । कलिङ्गसेनं राजानमेवं दूतो जगाद सः । देवः श्रीविक्रमादित्यस्त्वामादिशति भूपते । वेत्थ त्वं भुवि यद्रत्नं तदस्मानुपगच्छति । तवास्ति कन्यारत्नं च तदस्मभ्यं समर्पय । अस्मत्प्रसादाच्च निजं भुङ्क्ष्व राज्यमकण्टकम् ॥ एतच्छुत्वा स कालिङ्गः क्रुद्धो राजाभ्यभाषत । को नाम विक्रमादित्यः स एवाज्ञां ददाति नः । मार्गत्युपायनं कन्यां दर्पोन्धोऽधः पतिष्यति । एतत्कळिङ्गसेनारस श्रुत्वा दूतः समभ्यधात् । भृत्योऽप्येवमनात्मज्ञः कथमोजायसे प्रभोः । किं मूढ तरप्रतापानौ शलभायितुमिच्छसि । इत्युक्त्वा तत आगत्य स दूतस्तन्यवेदयत् । वचः कलिङ्ग सेनोक्तं विक्रमादित्यभूभृते ॥ ततो विषमशीलोऽसौ क्रुद्धः प्रायाद्धकैः सह । सभूतकेतुवेताळः कालिङ्गं प्रति तं प्रभुः । देवाशु कन्यामिति तं कालिी ब्रुवतीष्विव । सनारवप्रतिरवैर्दिक्षु तद्देशमपि च । दृष्ट्वाथ युद्धसंनद्धं रुद्ध्वा तं च नृपं बलैः । राजा स विक्रमादित्यो मनस्येवमचिन्तयत् ॥ एतत्सुतां विना तावन्मम नास्येव निधृतिः। तत्कथं श्वशुरं हन्मि युक्तिमत्र करोमि किम् ॥ इत्यालोच्य सवेतालो राजा तत्सिद्ध्यलक्षितः । सुप्तस्य प्राविशद्रात्रौ कलिङ्गशस्य वासकम् ॥ अरे विषमशीलेन विगृह्य स्वपिषीति तम् । प्रबोध्य तत्र वित्रस्तं वेतालः सोऽब्रवीद्धन् ॥ स चोत्थाय कलिफेन्द्रो दृष्ट दशितसाहसम् । परिज्ञाय च राजानं रौद्रचेताळ संगतम् ॥ इदानीं वशगोऽहं ते देवादिश करोमि किम् । इति विज्ञापयामास भीतस्तच्चरणानतः ॥ मया चेप्रभुणा कार्यं तव तद्देहि मे सुताम् । कलिङ्गसेनामिति तं राजापि प्रत्यभाषत । तथेति प्रतिपेदे च कलिङ्गाधिपतिः स तत् । राजापि वेताळ्युतः स्वमागाच्छिबिरं कृती । अन्येद्युश्च कलिङ्गन्द्रः स देवि त्वामदापिता । राजे विषमशीलाय विधिवद्विभवोत्तरम् ॥ एवं गाढानुरागेण राज्ञा देहपणेन च । परिणीतासि विधिवद्देवि नारिजिगीषया । इति कार्पटिकस्याहं देवसेनस्य वकतः। श्रुत्वावमानप्रभवं हे सख्यो मन्युमत्यजम् । इत्थं विवाहिता स्तम्भपुत्रिकादर्शनादहम् । चित्रावलोकनाचैषा राज्ञा मलयवत्यपि । एवं कलिङ्गसेना सा विक्रमादित्यवल्लभा । भर्तृप्रभावमाख्याय स्वसपत्नीरनन्द्यत् । स चैवं विक्रमादित्यः सर्वाभिस्ताभिरन्वितः। तया मलयवत्या च तस्थौ खम्राज्यमुस्थितः । अथैकदा राजपुत्रः कोऽप्यागाद्दक्षिणापथात् । कृष्णंशक्त्यभिधानोऽत्र परिभूतः स्वगोत्रजैः स सिंहद्वारमागस्य राज्ञः कार्पटिकव्रतम् । शिश्रिये राजपुत्राणामन्वितः पञ्चभिः शतैः॥ द्वादशाब्दान्मया सेवा विक्रमादित्यभूपतेः। कार्येति प्रतिजज्ञे च वार्यमाणोऽपि भूभुजा ॥ निश्चयेन च तस्यात्र तिष्ठतः सानुयायिनः । सिंहद्वारे नृपसुतस्यैकादश समा ययुः ॥ प्राप्ते च द्वादशे वर्षे तस्य देशान्तरस्थिता । भार्या चिरवियोगार्ता प्राहिणोलेखपत्रिकाम् ।
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४९४
दिखावट