पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८८ कथासरित्सागरः [ आदितस्तर केसटोऽपि गते तस्मिन्दुःखी रूपवतीं विना। गृहादविदितः पित्रोः प्रायाद्दन्तुमितस्ततः । कंदर्पोऽपि भ्रमन्दैवात्तत्प्राप नगरं किछ। यत्र रूपवतीं तां स केसटः परिणीतवान् जनकोलाहलं श्रुत्वा किमेतदिति तत्र तम् । कंपं परिपृच्छन्तं पुमानेकोऽब्रवीदिदम्। एषा रूपवती भूत्र केसटेन् चिनोद्यता । मर्ने कळफलस्तेन श्रुणु वृत्तान्तमत्र च । इत्युक्त्या केसटोद्वाहराक्षसोदन्तकौतुकम् । रूपवत्याश्रितं श्रोच्य स पुमानब्रवीत्पुनः । ततस्तं वञ्चयित्वैव वृद्धविप्रः स केसटम्। आदाय तां रूपवतीं पुत्रार्थं प्रययौ ततः ॥ केसटस्तु न विज्ञातः क यातः परिणीय ताम् । रूपवत्यष्यपश्यन्ती केसटं साब्रवीत्पथि । आर्यपुत्रं न पश्यामि किं सर्वेषु व्रजस्विह । तच्छुत्वा दर्शयन्पुत्रं तं स वृद्धद्विजोऽभ्यधात् । सोऽयं मत्तनयः पुत्रि भर्ता ते दृश्यतामिति । ततो रूपवती वृद्धांस्तत्रस्थानत्रवीक्रुधा । कोऽयं कुरूपो भर्ता मे मरिष्याम्येव निश्चितम् । येन ह्यः परिणीतास्मि तं प्राप्स्यामि न चेत्पति एवं वदन्ती त्यक्तान्नपाना राजभयेन सा । पितुरेव गृहं तेन वृद्धविप्रेण नायिता । तत्रोक्ततह्निजन्याजां शोचंस्तामवदत्पिता । कोऽसाविति कथं ज्ञेयः परिणेता स पुत्रि ते । ततो रूपवती स्माह तात पाटलिपुत्रकात् । देसटाख्यद्विजसुतः केसटाख्यः स मत्पतिः ॥ रक्षोमुखान्मया कृतच्छुतमित्यभिधाय सा । कृत्तं तस्मै समाचख्यौ वृत्तान्तं पतिरक्षसोः । ततः स तत्पिता गत्वा दृष्ट्वा रक्षो मृतस्थितम् । संजातप्रत्ययोऽतुष्यदंपत्योः सस्वतस्तयोः ॥ पतिप्रायाशयाश्वास्य सुतां तां प्राहिणोच सः। अन्वेषान्केसटपितुः पार्श्व पाटलिपुत्रकम् । । ते तत्र गत्वा न चिरादागत्यैवमिहाब्रुवन् । दृष्टः पाटलिपुत्रस्थः सोऽस्माभिर्भर्तृदेसटः । केसटः क्व स ते पुत्र इति पृष्टश्च तत्र सः । सबाष्पमब्रवीदस्मान्केसटोऽत्र कुतः सुतः । स ह्यागतोऽपि कंफ्नानि मित्रे सहागते । इतो रूपवतीदुःखात्काप्यनुक्त्वैव मे गतः । एतत्तस्य वचः श्रुत्वा क्रमाद्वयमिहागताः । इत्युक्तेऽन्वेषकै रूपवती पितरमभ्यधात् . । नास्यार्यपुत्रप्राप्तिर्न तदत्रिं प्रविशाम्यहम् । अत्र विनाकृता तात तिष्ठेयं हि कियच्चिरम् ॥ एवं ब्रुवाणा न यदा निषेठं तेन पारिता । तदा रूपवती साद्य निर्गता मर्तुमग्निना तस्याः सख्यायुभे कन्ये तद्वन्द्वं विनिर्गते । एका शृङ्गारवत्याख्या ह्यनुरागवती परा तद्विवाहे स ताभ्यां हि दृष्टः प्राक्केसटो युवा। तदुपहृतचित्ताभ्यां भी पर्यकरष्यत । इत्थं कोलाहलमिदं जनस्यानेति तेन सः। कंदर्पः पुरुषेणोक्तो ययौ तासां चितान्तिकम् । सतो दूरात्कलकलं निवायपेत्य च द्रुतम्। अवोचन्निमर्चन्तीमेवं रूपवतीं स ताम् । अलं ते साहसेनायै जीवयेव स केसटः। स भर्ता तव मित्रं मे कंदर्प मामवेहि च । इत्यूचिवान्वृद्धविप्रच्छद्यनौकाधिरोहणात् । आरभ्य केसटोदन्तं कथयामास सोऽखिलम् । ततः संवादसंजातप्रत्यया सा पितुर्मुहम् । हृष्टा रूपवती ताभ्यां सखीभ्यां प्राविशत्सह । कंदर्पोऽपि च तत्पित्रा प्रीत्योपचरितस्तदा । सुरक्षितश्च तत्रैव तस्थौ तदनुरोधतः ॥ तावत्स केसटो दैवाग्रप रत्नपुरं भ्रमन् । कंदर्पस्य गृहं तत्र तत्रार्थे यत्र ते स्थिते । परिभ्रमन्तं तं तत्र हतुकंदर्पभार्यया । दृष्टा सुमनसा हर्षादूचिरे श्वशुरादयः॥ आर्यपुत्रसुहृत्सोऽयं संप्राप्तः केसटोऽधुना । अस्मात्प्रवृत्तिर्युध्येत शीनें संभाव्यतामिति । ततो गत्वैव तैरुक्वा यथावस्तु स केसटः । आनीतस्तां सुमनसं दृष्टाहृष्यदुपागताम् ।। विश्रान्तश्च क्षणात्पृष्टस्तस्यै वन्येभसंभ्रमात् । आरभ्य कंदर्पगतं स्वं च वृत्तान्समब्रवीत् ॥ सत्कृतो दिवसान्कांश्चिदास्ते यावश्च तत्र सः । लेखहस्तः पुमांस्तावदागात्कर्मपार्श्वतः ॥ यत्र रूपवतीं नाम तत्सुहृत्परिणीतवान् । केसटस्तत्र कंर्पः स्थितो रूपवती च सा । इति चोवाच स पुमांलेखार्थोऽभूत्तथैव च । कंदर्पपित्रे स्वोद्वाहं केसटोऽवर्णयच्च सः । ततः कृतोत्सवोऽन्येद्युः कंदर्पनयनाय सः । तत्पित। प्राहिणोदूतं प्रियाशास्यै च केसटम् ॥