पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४८६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


५८२ कथासरित्सागरः । ततोऽहं वृक्षमारुह्य वल्लीवलयपाशकम्। छित्त्वा परशुना तं च वानरीं ताममोचय अथावतीर्य वृत्तौ वानरो वानरी च सा। अवतीर्णस्य मे पादावगृहीतामुभावपि स्थापयित्वा च मे पालनां तां वानरीं क्षणम् । गत्वा स कपिरानीय मठं दिव्यम तदादाय गृहीत्वाहमिन्धनान्यागमं गृहम् । तत्र चाभक्ष्यं भार्यासहितस्तत्फलोत्तम तस्मिन्भुक्ते जरारोगैौ सभार्यस्य गतौ मम । ततस्तत्रोदभूदस्मद्देशे दुर्भिक्षविप्लवः । तदाक्रान्तश्च तत्रत्यो जनो यातो यतस्ततः। अहं दैवादिमं देशं सभार्यः प्राप्तवान् इह काञ्चनदंष्ट्राख्यस्तद्भूच्छबराधिपः। तस्य शत्रमुपादाय भृत्यतामहमाश्रयम् आयोधनेषु दृष्ट्वा च तेषु तेष्वनुयायिनम् । सोऽथ काञ्चनदंष्ट्रो मां सेनापत्येऽभि एकभक्त्या च स मया ततोऽप्याराधितः प्रभुः । मह्यमेवान्तकालेऽत्र राज्यं प्रादा इहस्थस्य च मे यातान्यब्दानां सप्तविंशतिः । शतानि न जरा चास्ति मम तत्फल एवं स्वोदन्तमाख्याय स राजानं सविस्मयम् । एकाकिकेसरी भूयो भिलराजो व्य तन्मया वानरफळाद्यकृतं चिरजीवितम् । पूर्ण ततोऽद्य संप्राप्तं फडं त्वत्पाद्दर्शन अतोऽहमर्थये देव यो गृहगमनान्मयि । दर्शितोऽनुग्रहोऽद्यायं परितोषं स नीयत भार्यायां क्षत्रियायां मे देवोत्पन्नास्ति कन्यका । अनन्यतुल्या रूपेण नान्ना मदन कन्यारत्नं च तद्देवादृते नान्यत्र शोभते । तत्प्रयच्छामि तां तुभ्यमुद्वहस्व यथावि दासोऽहं च धनुर्लक्षद्वयेनानुगतः प्रभो । इति तेनाथितो राजा स तथेत्यन्वमन्यत शुभे लग्ने च तां तस्य तनया परिणीतवान् । मुक्तकस्तूरिकाभारभृतोद्देशतदायिन सप्तरात्रमुषित्वा च राजा प्रस्थितवांस्ततः । तया मदनसुन्दर्या सभिल्लानीकया सह अत्रान्तरेऽश्वापहृते राज्ञि तन्मृगयावने । स्थितमस्मद्वसुं विग्नं क्षत्ता भद्रायुधोऽभ्य अठं विषादेनायाति न चिरादेव वः प्रभुः । नास्य दिव्यप्रभावस्य किंचिदत्यहितं किं न स्मरथ यद्भत्वा पाताळापरिणीय च । नागकन्यां सुरूपाख्यामेककः स इ गन्धर्वलोकं गत्वा च वीरः प्रत्यागतस्ततः। तारावलीमुपादाय गन्धर्वाधिपकन्यक इत्युक्त्वाश्वासिताः सर्वे तेन भद्रायुधेन ते । अतिष्ठन्नटवीद्वारे राज्ञो मार्गावलोकि राजापि स्पष्टमार्गेण समं शबरसैनिकैः । तस्यां मदनमुन्दर्या प्रक्रामन्यां यथेच्छर प्राबिशनुरगारूढः सवेतालो मया सह । वनं तत्पूर्वदृष्टस्य वराहस्य दिदृक्षया । प्रविष्टस्य च तत्रागाद्वराहस्तस्य सोऽग्रतः । हनैव च स राजा तमवधीत्पञ्चभिः इतस्य तस्य धावित्वा वेताळेन विदारितात् । उदराद्देवि निरगादकस्मात्सुभगः पु को भवानिति यावत्तं राजा पृच्छति विस्मयात् । जङ्गमाद्रिनिभस्तावदागात्तत्र व आपतन्तं तमारण्यं राजा दृष्णैव कुञ्जरम् । एकेनैव पृषत्केन मर्माहतमपातयत् तस्यापि पाटितात्तेन वेतालेनोदरान्तरात् । पुरुषो निरगाद्दिव्यः स्त्री च सर्वाङ्गसु प्रष्टुकामं च राजानं वराहोदरनिर्गतः । स पुमानवदद्राजन्स्वोदन्तं शृणु वच्मि ते आवां देवकुमारौ द्वौ भद्राख्योऽयमहं शुभः । तौ भ्रमन्तावपश्याव कण्वं ध्यान गजसूकरयो रूपमावाभ्यां क्रीडया कृतम् । कृत्वा च त्रासितो मोहान्महर्षिः शप अटव्यामीदृशावेव भवतं गजसूकरौ । विक्रमादित्यभूपेन हतौ मुक्तिमवाप्स्यथः इत्यावां मुनिशापेन गजसूकरतां गतौ । त्वयाद्य मोचितौ स्त्री तु स्खोदन्तं वक्त्वि एतं च सूकरं कण्ठे पृष्ठे च स्पृश वारणम् । कृपाणचर्मणी दिव्ये तवैतौ हि भरि इत्युक्त्वा सद्वितीयः स तिरोऽभूत्तौ च भूपतेः। क्रोडद्विपौ करस्पृष्टैौ संपन्नौ ख ततः सा तु स्ववृत्तान्तं पृष्टा सत्येवमब्रवीत् । भार्याहं धनदत्ताख्यस्योज्जयिन्यां सा इयंतच्सुप्ताहमागल्यानेन न्तिना । निगीर्येवमिहानीता न चास्यान्तः पुमा