सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः ॥ महाकविश्रीसोमदेवभट्टविरचितः कथासरित्सागरः। -~~ ~ @3¥8©3«- विषमशीलो नामाष्टादशो लम्बकः। --[^ ०- इदं गुरुगिरीन्द्रजापणयमन्दरान्दोलना पुरा किल कथामृतं हरसुखाम्बुधेरुद्भतम् । प्रसह्य रसयन्ति ये बिगतविन्नलब्धर्डयो धुरं दधति वैखुधीं भुवि भवप्रसादेन ते । प्रथमस्तरङ्ग चन्द्राननार्धदेहाय चन्द्रांशुसितभूतये । चन्द्रार्कानळनेत्राय चन्द्रार्धशिरसे नमः ॥ करेण कुञ्चिताग्रेण लीलयोन्नमितेन यः। भाति सिीरिव ददत्स पायाद्वो गजाननः । ततोऽसितगिरौ तत्र कश्यपस्याश्रमे मुनेः । नरवाहनदत्तस्तान्मुनीनेवमभाषत । अन्यच्च देवीविरहे नीत्वाहं सानुरागया। वेगवत्या यदा न्यस्तो विद्याहस्तेऽभिरक्षितुम् । तदा शरीरत्यागैषी विरही परदेशगः । वनान्ते दृष्टवानस्मि भ्रमन्कण्वं महामुनिम् । स मां पादानतं दृष्ट्वा प्रणिधानाद्वेप्य च । दुःखितं स्वाश्रमं नीत्वा सद्यो मुनिरभ्यधात् ॥ सोमवंशोद्भवो वीरो भूत्वा किं नाम मुह्यसि । देवादेशे भुवेऽनास्था का भार्यासंगमे तव ।। असंभाव्या अपि नृणां भवन्तीह समागमाः । तथा हि विक्रमादित्यकथामाख्यामि ते श्रुणु ॥ अस्त्यवन्तिषु विख्याता युगादौ विश्वकर्मणा । निर्मितोऽजयिनी नाम पुरारिवसतिः पुरी । सतीव या पराभृष्या पद्मिनीघाश्रिता श्रिया । सतां धीरिव धर्माढ्या पृथ्वीव बहुकौतुका ॥ महेन्द्रादित्य इत्यासीद्राजा तस्यां जगज्जयी । मघवेवामरावत्यां विपक्षबलसूदनः । नानाशस्त्रायुधः शौर्यं रूपे तु कुसुमायुधः । योऽभून्मुक्तकरस्यागे बद्धमुष्टिकरस्त्वसौ । तस्य पृथ्वीपतेर्भार्या नानाभूत्सौम्यदर्शना । शचीवेन्द्रस्य गौरीब शंभोः श्रीरिव शाङ्गिणः । । । महामन्त्री च सुमतिर्नाम तस्याभवत्प्रभोः । वजायुधाभिधानश्च प्रतीहारः क्रमागतः॥ तैः समं स नृपः शासद्राज्यमाराधयन्हरम् । नानाप्रतधरः शश्वद्भबत्पुत्रकाम्यया ।। अत्रान्तरे च गीर्वाणगणसंश्रितकंद्रे । अन्यदिग्जयसानन्दकौबेरीहससुन्दरे । स्थितं कैलासशैलेन्द्रं पुरारिं पार्वतीयुतम् । उपाजग्मुः सुराः सेन्द्रा म्लेच्छोपद्रवदुःस्थिताः । प्रणामानन्तरासीनास्ते कृतस्तुतयोऽमराः । पृष्टागमनकार्यास्ते देवमेवं व्यजिज्ञपन् ॥ ये त्वया देव निहता असुरा ये च विष्णुना । ते जाता म्लेच्छरूपेण पुनरद्य महीतले । व्यापादयन्ति ते विप्रान्नन्ति यज्ञादिकाः क्रियाः । हरन्ति मुनिकन्याश्च पापाः किं किं न कुर्वते । भूलोकाद्देवलोकश्च शश्वदाप्यायते प्रभो । ब्राह्मणैर्दूतमग्नौ हि हविस्तृत्यै दिवौकसाम् । ठेच्छाक्रान्ते च भूलोके निर्वषट्सारमङ्गले । यज्ञभागादिविच्छेदाद्देवलोकोऽवसीदति ॥ तदुपायं कुरुष्वात्र तं कंचिदवतारय । प्रवीरं भूतले यस्तान्लेच्छानुसादयिष्यति । इति देवैः स विज्ञप्तः पुरारातिरुवाच तान्। यात यूयं न चिन्तात्र कार्या भयत निधृताः। अचिरेण करिष्येऽहमत्रोपायमसंशयम् । इत्युक्त्वा व्यसृजद्देवान्स्यधिष्ण्यान्यम्बिकापतिः ॥