ङ्गः ६ ।] पझावतीलचकः १७ । ५६५ २०४ २०५ २०६ २०७ २०८ २०९ २१० २११ भो मुक्ताफलकेतो त्वामियमुद्दिश्य मयि विमुक्ततनुः । तदिमां सिद्धेशसुतां गृहाण देवप्रभां भार्याम् । इत्येतदुक्त्वैव तिरोहितेऽनळे ब्रह्मत्र सेन्ट्रैरमरैः सहाययौ। गन्धर्वराजः सह चन्द्रकेतुना विद्याधरेन्द्रेण च पशेखरः । प्रह्वाय सवैरभिनन्दिताय तैर्गन्धर्वराख्यग्नपरिग्रहस्ततः । प्रादारस मुक्ताफलकेतवे सुतां पद्मावतीं तां विधिवद्विभूतिमान् । स चात्र विद्याधरराजपुत्रश्चिरोत्सुकस्तां दयितामवाप्य । मेने फडं जन्मतरोरवाप्तमुवाह तामप्यथ सिद्ध कन्याम् । स च तया दितिजेश्वरकन्यया विधिवदत्र पितृप्रवितीर्णया । नृपसुतः समयुज्यत कान्तया त्रिभुवनप्रभया मळयध्वजः । ततः कृतित्वादभिषिच्य पुत्रं सीपपृथ्वीवलयैकराज्ये । मेरुध्वजः स्वे मलयध्वजं तं वनं सदारस्तपसे जगाम । त्रैलोक्यमाली सपरिग्रहश्च प्रायात्पदं स्वं दितिजाधिराजः । शक्रोऽथ मुक्ताफलकेतवे तां ददौ स विद्युद्वजराज्यलक्ष्मीम् ॥ मुक्ताफलकेतुरयं भुङ्क विद्याधरासुरैश्वर्यम् । स्वपदानि यान्तु च सुरा इत्थं वागुचचार दिवः । तामाकण्थं ययुस्ततः प्रमुदितास्ते ब्रह्मशक्रादयः शापान्मुक्तवता तपोधनमुनिः शिष्येण साकं ययौ । श्रीमुक्तफलकेतुना च सहितो भार्याद्वयभ्राजिना पुत्रेणाथ स चन्द्रकेतुरगमद्वैद्याधरं खं पदम् ॥ भुक्त्वा च तत्र गगनेचरचक्रवर्तिलक्ष्मीं सुतेन सह तेन चिरं स राजा। तस्मिन्निवेश्य निजराज्यधुरं विरक्तो देव्या समं मुनितपोवनमाश्रितोऽभूत् । स च मुक्ताफलकेतुः प्रागिन्द्रादसुरराज्यमासाद्य । प्राप्य पुनश्च पितुस्तद्विद्याधरचक्रव पद्मावत्या सहितो दशकपान्मूर्तयेव निधृत्या । भेजे सुसमृद्धोभयसाम्राज्यमुखश्रियं सुकृती । आलोच्य भावानवसाननीरसान्संश्रित्य चान्ते स मुनीन्द्रकाननम् । ज्योतिः परं प्राप्य तपःप्रकर्षतः सायुज्यमीशस्य जगाम धूर्जटेः । एवं हंसयुगान्निशम्य सरसामेतां कथां तन्मुखा ज्ज्ञानं प्राप्य च लब्धदिव्यगतिकः स ब्रह्मदत्तो नृपः। तद्भार्यासचिवौ च तौ च विहगौ गवैव सिद्धीश्वरं त्यक्त्वा शपतनूः शिवानुचरतां प्रापुर्निजां तेऽखिळाः । इत्यहमाकर्य कथां गोमुखतो मदनमझुकाविरहे । हे मुनयः क्षणमात्रं धृत्या चेतो विनोदितवान् । एवं कथितकथे किछ नरवाहनदत्तचक्रवर्तिनि ते । गोपाळकेन सहिताः परितुतुषुः कश्यपाश्रमे मुनयः । इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे पद्मावतीलयके षष्ठस्तरङ्गः। समाप्तोऽयं पझावतीलम्बकः सप्तदशः । २१२ २१३ २१४ २१५ २१६ २१७ २१८ २१९
पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/४६९
दिखावट